________________
उद्देश : १, मूलं - ५, [भा. १०७७]
२८९
संस्तरति ततो यावता न्यूनं तावत् परग्रामात् 'शेषं' शुद्धोदनमानयति । गतमोदनद्वारम् । अथ मिश्रोपस्कृतद्वारमाह-‘“मीसं च' इत्यादि । यदा स्वग्राम-परग्रामयोः पर्याप्तं शुद्धोदनं न प्राप्यते तदा यद् ओदनं प्रलम्बैर्भिश्रमुपस्कृतं तत् शुद्धोदनस्याध्यवपूरकं गृह्णाति ।। इदमेव विशेषयन्नाह[भा. १०७८] तत्थ वि पढमं जं मीसुवक्खडं दव्व-भावतो भिन्नं । दव्वाभिन्नविमिस्सं, तस्सऽसति उवक्खडं ताहे ॥
वृ- 'तत्रापि' मिश्रोपस्कृते गृह्यमाणे प्रथमं यद् द्रव्यो भावतश्च भिन्नैः प्रलम्बैर्मिश्रमुपस्कृतं तत् स्वग्राम-परग्रामयोर्गृह्णाति । तस्यापि ‘असति' अलाभे यद् ओदनं द्रव्यतोऽभिन्नैर्भावतो भिन्नैः प्रलम्बैर्विमिश्रमुपस्कृतं तत् तदा शुद्धोदनस्याध्यवपूरकं प्रथमं स्वग्रामे ततः परग्रामे गृह्णाति ।। गतं मिश्रोपस्कृतम् । अथ निर्मिश्रोपस्कृतमाह
[भा. १०७९] पनगाइ मासपत्तो, ताहे निम्मीसुवक्खडं भिन्नं । निम्मीस उवक्खडियं, गिण्हति ताहे ततियभंगे ॥
वृ-येषु सूक्ष्मप्राभृतिकादिदोषेषु पञ्चकप्रायश्चित्तं तेषु आदिशब्दाद् दशरात्रिन्दिवादिस्थानेषु च यतित्वा यदा भिन्नमासमतिक्रान्तो लघुमासं च प्राप्तो भवति तदा यद् द्रव्यतो भावतश्च भिन्नं निर्मिश्रं प्रलम्बजातमुपस्कृतं तत् शुद्धोदनस्य मिश्रोपस्कृतस्य चाध्यवपूरकं स्वग्रामपरग्रामयोर्गृह्णाति। यदा चरमभङ्गे न लभ्यते तदा निर्मिश्रोपस्कृतमेव तृतीयभङ्गे द्रव्यतोऽभिन्नं गृह्णाति ॥ गतं निर्मिश्रोपस्कृतम् । अथ पक्वमामं च व्याख्यानयति
[भा. १०८०] एमेव पउलियाऽपउलिए य चरिम-तइया भवे भंगा। ओसहि-फलमाईसुं, जं चाऽऽईन्नं तगं नेयं ॥
वृ- एवमेव पक्वा ऽपक्वयोश्चरम-तृतीयौ भङ्गौ भवतः । पक्वं नाम यद् अग्निना संस्कृतम्, यथा इङ्गुदीबीज-बिल्वादि । अपक्वं यद् अग्निनाऽन्येन वा इन्धन - धूमादिना प्रकारेण न पक्वं परं निर्जीवावस्थम्, यथा परिपक्वकदलीफल - त्रपुषादि । तत्र निर्मिश्रोपस्कृतस्यालाभे प्रथमं पक्वं चतुर्थभङ्गे ततस्तृतीयभङ्गे, ततोऽपक्वमपि चतुर्थ-तृतीयभङ्गयोः । एवमेव अध्यवपूरकं गृह्णाति । अत्र चौषधिफलादिषु यच्च पूर्वसाधुभिरवमादिकारणं विनाऽप्याचीर्णं तद् 'नेयं' नयनीयं ग्रहीतव्यमित्यर्थः, यद्वा तद् 'ज्ञेयं' ज्ञातव्यम् । तत्रौपधयो धान्यानि तेष्वाचीर्णं यथा चणका माषा वा, फलेषु आचीर्णं यथा त्रिफलादि, आदिशब्दाद् मूल- कन्दादिष्वपि यथायोगमाचीर्णाऽनाचीर्णव्यवस्थाऽनुसर्त्तव्या । अत्रौषधिषु यद् आचीर्णं तद् व्याचष्टे
[भा. १०८१] सगला - ऽसगलाइने, मीसोवक्खडिय नत्थि हानी उ । जइउं अमिस्सगहणं, चरिमदुए जं अणाइन्नं ॥
वृ-चणक- माषादिषु पूर्वाचार्यैराचीर्णेषु सकलेष्वसकलेषु वा मिश्रेषु निर्मिश्रेषु वा उपस्कृतेषु नास्तिपञ्चकपरिहाणि । यच्च पूर्वाचार्यैरनाचीर्णं तत्र पञ्चकपरिहाण्या यतित्वा लघुमासं प्राप्तः 'चरमद्वये' चतुर्थ-तृतीयभङ्गयोरमिश्रस्य निर्मिश्रोपस्कृतस्य ग्रहणं कार्यं नार्वागिति । आह यद् निर्जीवं तत् कथमनाचीर्णम् ? उच्यते
[भा. १०८२] जइ ताव पिहुगमाई, सत्थोवहया वि होंतऽनाइन्ना ।
18 19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org