________________
२८६
बृहत्कल्प-छेदसूत्रम् -१-१/५ संयत-संयती-तदुभयैः परिगृहीते “इमा" वक्ष्यमाणायतनातत्र क्षेत्रेभवति ।।इदमेवस्फुटतरमाह[भा.१०६९]पुव्वोगहिए खेत्ते, तिविहेण गणेण जइ गणो तिविहो।
एजाहि तयं खेत्तं, ओमे जयणा तहिं कानू॥ वृ-'त्रिविधेन' संयत-संयती-तदुभयरूपेण गणेन त्रिविधस्य वाऽन्यतरेण पूर्वमवगृहीते क्षेत्रेयदि त्रिविधएवगणो अवमकाले असंस्तरन्तकं क्षेत्रम् ‘एयात्' आगच्छेत्, ततस्तेषामागतानां स्थातव्ये वास्तव्यानां वा अवग्रहे दातव्ये का 'नुः' इति वितर्के यतना?॥अत आह[भा.१०७०]आयरिय-वसभ-अभिसेग-भिक्खुणो पेल्ल लंभे न य देंति।
गुरुगा दोहि विसिट्ठा, चउगुरुगाइ व्व जा लहुगो॥ __ वृ- यत् संयतपरिगृहीतं क्षेत्रं तदेषामन्यतरेण परिगृहीतं भवेत् । तद्यथा-आचार्येण वा वृषभेण वाअभिषेकेणवा भिक्षुणा वा ।येआगन्तुकास्तेऽप्येवमेव चत्वारोद्रष्टव्याः। संयत्योऽपि वास्तव्याः आगन्तुकाश्चैवमेव चतुर्विधाः । नवरमाचार्यस्थाने प्रवर्तिनी वृषभस्थाने गणावच्छेदिनी वक्तव्या । अत्र चाऽऽचार्य प्रसिद्धः । उपाध्यायो वृषभानुग इति कृत्वा वृषभ उच्यते । यः पुनरित्वराभिषेकेणाऽऽचार्यपदेऽभिषिक्तः सइहाभिषेकः, अथवा गणावच्छेदक इहाभिषेकः। शेषाः सामान्यसाधवो भिक्षवः । एतेषां चेय चारणिका-आचार्यपरिगृहीते क्षेत्रे यदन्य आचार्य आगतो यदिचस वास्तव्य आचार्य क्षेत्रे पूर्यमाणे भक्त-पाने वालभ्यमाने आगन्तुकस्य स्थातुंन ददाति तदा चत्वारोगुरवः, अथन पूर्यते क्षेत्रंसचागन्तुकोबलात्प्रेर्य तिष्ठतितस्यापिचतुर्गुरुकाः, एतच्च प्रायश्चित्तंतपसाकालेनचद्वाभ्यामपि गुरुकम्सएव वास्तव्यकआचार्योवृषभस्यागन्तुकस्य न ददाति वृषभो वा बलात तिष्ठति उभयोरपि चत्वारो गुरुकाः तपसा गुरवः कालेन लघवः; स एव वास्तव्यआचार्योऽभिषेकस्यागतस्य स्थानंनददातिसवाअभिषेको वास्तव्यमाचार्यमवगणय्य तिष्ठति उभयत्रापि चतुर्गुरु तपसा लघु कालेन गुरुकम्; स एळ वास्तव्य आचार्य आगन्तुकस्य भिक्षोरवस्थातुंन प्रयच्छतिस वा भिक्षुर्वास्तव्यमाचार्यं बलादवज्ञाय तिष्ठति द्वयोरपि च चत्वारो गुरवस्तपसा कालेन च लघवः । एवमाचार्ये पूर्वस्थिते भणितम्।
एवं वृषभाऽभिषेक-भिक्षुभिरपि पूर्वस्थितैः प्रत्येकं चत्वारो गमाः कर्त्तव्याः, प्रायश्चित्तमप्येवमेव तपः-कालविशेषितम् । एवमेते सर्वसङ्ख्यया षोडश गमाः । अथवैतेष्वेव षोडशसुगमेषुप्रायश्चित्तप्ररूपणायामयमादेशः-“चउगुरुगादिव्वजा लहुगो"त्तिअस्य भावनाआचार्य आचार्यस्यागतस्य स्थातुं न ददाति आगन्तुको वा प्रेरयति द्वयोरपि चत्वारो गुरवः उभयगुरुकाःआचार्योवृषभस्य न प्रयच्छतिवृषभो वा बलात् तिष्ठति चतुर्लघवः तपसागुरुकाः। आचार्य एवाभिषेकस्य न ददाति अभिषेको वा बलात् प्रेरयति मासगुरु कालेन गुरु।आचार्यः सामान्यभिक्षोरायातस्य स्थातुं नानुजानीते आगन्तुको वा भिक्षुर्बलादेवावतिष्ठते मासलघु उभयलघुकम्। एवं शेषेष्वपिद्वादशसुगमेषुचतुर्गुरुकादिकं लघुमासान्तंतपः-कालविशेषितमेवमेव प्रायश्चित्तम् । तदेवं संयतानां संयतैः सह चारणिकया षोडश विकल्पा उक्ताः । अथ शेषविकल्पप्रदर्शनायाह[भा.१०७१]एमेव य भयणा वी, सोलसिया एक्कमेक्क पक्खम्मि।
उभयम्मि वि नायव्वा, पेल्लमदेंते वजं पावे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org