________________
२८४
बृहत्कल्प-छेदसूत्रम् -१-१/५
स्थापयथ, यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम, प्रवचने च तत्र तत्र प्रदेशे संयत्यः प्रव्राजनीया उक्ता एव, अतः पर्यनुयुज्यते किं परिवर्तयितव्याः संयत्यः ? उत न? इति । गुरुराह-नास्त्यत्र कोऽपि नियमो यदवश्यमेव परिवर्तयितव्या न वेति, यदि पुनः प्रव्राज्य न्यायतः परिवर्तयति ततो महतीं कर्मनिर्जरामासादयति, अथान्यायतः परिवर्त्तयति ततो महामोहमपचित्य दीर्घसंसारसम्पातभाग् भवति । तर्हि कीशेन परिवर्तयितव्या न वेति, यदि पुनः प्रव्राज्य न्यायतः परिवर्तयति ततो महती कर्मनिर्जरामासादयति, अथान्यायतः परिवर्त्तयतिततोमहामोहमुपचित्य दीर्घसंसारसम्पातभाग्भवति।तर्हि कीशेन परिवर्तयितव्याः? उच्यते-“सहु-मीयपरिसे"त्ति सहिष्णुर्भातपर्षदिति पदद्वयेन चतुर्भङ्गी, सा चेयम्-सहिष्णुरपि मीतपर्षदपि१, सहिष्णुर्नभीतपरिषत् २, असहिष्णुः परंभीतपरिषद्३, असहिष्णुरभीतपरिषच्चेति ३।तत्रेन्द्रियनिग्रहसमर्थसंयतीप्रायोग्यक्षेत्र-वस्त्र-पात्रादीनामुत्पादनायांप्रभविष्णुः सहिष्णुरुच्यते। यस्य तु सर्वोऽपि साधु-साध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरिषत् । तत्र प्रथमभङ्गे वर्तमानः परिवर्तनायामनुज्ञातः, शेषेषु त्रिषु भङ्गेषु वर्तमानो नानुज्ञातः, यदि परिवर्तयति तदा चत्वारो गुरुकाः। “जं च"त्तिद्वितीये भङ्गे आत्मनासहिष्णुः परमभीतपरिषत्तयास्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत् सर्वमयमेव प्राप्नोति । तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यगादीनि हटवायदाचरतितनिष्पन्नम्। चतुर्थे भने द्वितीयतृतीयभङ्गदोषानवाप्नोतीति। प्रथमभङ्गवर्त्तिनमुद्दिश्याह[भा.१०६३] जइ पुन पव्वावेती, जावज्जीवाए ताउ पालेइ।
अनसति कप्पे विहु, गुरुगा जं निजरा विउला ॥ वृ- यदीत्यभ्युपगमे, ततश्चायमर्थ-ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितुं न कल्पन्ते । यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावजीवं ताः पालयति, योग-क्षेमविधानेन सम्यग् निर्वाहयतीत्यर्थः। सप्रथमभङ्गवर्ती यदि जिनकल्पं प्रतिपित्सुः अपरंचाऽऽर्यिकाः परिवर्तयितव्याः ततः किं करोतु? इति चिन्तायांयद्यस्तितदीयेगच्छे कोऽप्यार्यिकाणां विधिनावर्तापकस्ततस्तस्य समर्प्य जिनकल्पं प्रतिपद्यताम्, अथ नास्त्यन्यो वर्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किन्त्वार्यिकाएवपरिवर्तयतु।कुतः? इत्याह-अन्यस्य वर्तापकस्यअसति-अभावे जिनकल्पेऽपि प्रतिपद्यमाने 'हुः' निश्चयेचत्वारो गुरुकाः।आह सकलकर्मक्षयार्णकारणे जिनकल्पेऽपिप्रतिपद्यमाने किमेव प्रायश्चित्तम् ? इत्याह-'यद्' यस्मात्कारणाद् जिनकल्पं प्रतिपन्नस्य या निर्जरा तस्याः सकाशाद्विपुला निर्जरायथावत्संयतीः परिपालयतोभवतीतियुक्तियुक्तमेव प्रायश्चित्तम्।। अथ “जयणट्ठियाण गहणं"ति यदुक्तं तत्र यया यतनया स्थितास्तामाह[भा.१०६४] उभयगणी पेहेर्छ, जहि सुद्धं तत्थ संजती णेति ।
असती व जहिं भिन्ना, अभिन्ने अविही इमा जयणा॥ वृ- उभयः-साधु-साध्वीवर्गद्वयरूपो गणोऽस्यास्तीत्युभयगणी, स आचार्योऽवमकाले तोसलिप्रभृतिके प्रचुरप्रलम्बे देशे गत्वा गीतार्थेनाऽऽत्मना वा क्षेत्रद्वयं प्रत्युपेक्ष्य ययोः शुद्धं भक्तं लभ्यते न प्रलम्बमिश्रितमित्यर्थः तयोः क्षेत्रयोः पृथग् द्वावपि वर्गौ स्थापयति । यदि द्वे क्षेत्रे ईशेनस्तस्ततो यत्रशुद्धं भक्तंप्राप्यते तत्र संयतीः ‘नयति' स्थापयति, यत्र पुनः प्रलम्बमिश्रितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org