________________
२५४
चतुर्थो भङ्गः शुद्धः ।। आद्यानां त्रयाणां भङ्गानां भावनामाह
बृहत्कल्प-छेदसूत्रम् -१-१/१
[भा. ९४२] देसो व सोवसग्गो, पढमो तइओ तु होइ वसनी वा । बिइओ अजाणतुल्लो, सारो दुविहो दुहेक्कक्को ।।
वृ- 'प्रथमः' प्रथमभङ्गवर्त्ती आचार्य सोपसर्गदेश इव परित्यक्तव्यः । 'तृतीयः' गीतार्थोऽप्यसारणिकत्वाद् व्यसनीव राजा परिहर्त्तव्यः । 'द्वितीयः' सारणिकोऽप्यगीतार्थत्वादज्ञनरेन्द्रतुल्य इति कृत्वा परिहार्य इति चूर्ण्यभिप्रायः ।
अथ निशीथचूर्ण्यभिप्रायेण व्याख्यायते प्रथमः सोपसर्गदेश इव परिहार्य । द्वितीयः पुनरगीतार्थ परं सारणिकः स च व्यसनीव ज्ञातव्यः । किमुक्तं भवति ? - सोऽगीतार्थ सन् यत् किमपि स्वशिष्यान् नोदयति सा नोदना तस्य व्यसनमिव द्रष्टव्यम्, अतो व्यसनाभिभूतभूपतिदसौ परिहार्यः । तृतीयः पुनरसारणिकत्वाद् गीतार्थोऽप्यज्ञनृपतुल्य इति कृत्वा परित्याज्यः । व्याख्याने "देसो व सोवसग्गो, पढमो बिइओ उ होइ वसणी वा । तइओ अजाण तुल्लो" त्ति पाठो द्रष्टव्यः । पुस्तकेष्वपि बहुष्वयमेव द्दश्यत इति । यदुक्तं "रज्जं विलुत्तसारं, जह तह गच्छो वि निस्सारो” त्ति तदेतद् भावयति-"सारो दुविहो दुहेक्क्को" सारो द्विविधः-लौकिको लोकोत्तरिकश्च । पुनरेकैको द्विधा-बाह्य आभ्यन्तरश्च ॥ एतदेव व्याचष्टे
[ भा. ९४३ ] गो-मंडल-धन्नाई बज्झो कनगाइ अंतो लोगम्मि । लोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई ॥
वृ- गोशब्देन गावो बलीवर्दास्चोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वादीनामपि परिग्रहः मण्डलमिति देशखण्डम्, यथा - षन्नवतिमण्डलानि सुराष्ट्रादेशः अथवा गोमण्डलं नाम गोवर्ग, उपलक्षणत्वाद् मष्यादिवर्गोऽपि धान्यानि शालिप्रभृतीनि, आदिशब्दाद् वास्तु-कुप्यादिपरिग्रहः; एष लौकिको बाह्यः सारः । कनकं - सुवर्णम्, आदिग्रहणेन रूप्य - रत्नादीनि; एषः 'अन्तः' इति आभ्यन्तरः सारः ‘लोके' लोकविषयो मन्तव्यः । एतेन द्विप्रकारेणापि सारेण राज्यं पार्थिवेनाऽचिन्त्यमानं निस्सारं भवति । लोकोत्तरिकः सारो द्विधा - अन्तर्बहिश्च । तत्रान्तः सारो ज्ञानम्, आदिशब्दाद् दर्शन-चारित्रे च । बहिसारो वस्त्रदिकः, आदिग्रहणेन शय्या पात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिकसारेणाऽऽचार्येणाऽसार्यमाणो गच्छो निस्सारो भवतीति प्रकृतम् । तस्माद् गणिनो गच्छम सारयत एतत् प्रायश्चित्तम् । गीतार्थोपदेशमन्तरेण वाऽगीतार्थस्य स्वयमेव कार्येषु प्रवर्त्तमानस्याऽयं दोषो भवति ॥
[भा. ९४४ ] सुहसाहगं पि कज्जूं, करणविहूणमणुवायसंजुत्तं । अन्नाऽदेस - काले, विवत्तिमुवजाति सेहस्स ।।
वृ- सुखेन साधः-साधनं यस्य तत् सुखसधकम्, " शेषाद्वा" इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि कार्यं करणम् - आरम्भः प्रयत्न इत्येकोऽर्थस्तद्विहीनम्, तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन संयुक्तम्, “अन्नाय"त्ति यद् यस्य कार्यमज्ञातं तत् तेनाऽऽरभ्यमाणम्, 'अदेश-कालेच' अनवसरे विधीयमानं शैक्षस्याऽज्ञस्य विपत्तिमुपयाति । विपत्तिशब्देन कार्यस्याऽसिद्धिरत्राभिधीयते । तदुक्तम्
सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org