________________
२१४
बृहत्कल्प-छेदसूत्रम् -१खण्डीकृतानि? किंवासकलानि? “कित्तियावा वि"त्ति कियन्तिवा गणनया द्वित्र्यादिसङ्ख्याकान्यानयामि? अपिशब्दात किंबद्धास्थिकानि? अबद्धास्थिकानि वा? तरुणानि? जरठानि वा? इत्याद्यपिद्रष्टव्यम् । इत्थं शिष्येणाभिहितेआचार्येण वक्तव्यम्-सौम्य! लब्धानि सन्त्यग्रेऽपि मम पुनः पुरा विस्मृतान्यासन्इदानीं स्मृतिपथमवतीर्णानीति; यद्वा पर्याप्ततावदिदानीम्, प्रयोजने समापतितेपुनर्मभवन्तं वक्ष्यामि' मणिष्यामि; अथवा वत्स! किंममाऽऽप्रैः कार्यम् ? 'विमर्शार्थ' 'किमयं विनीतः ?न वा?, परिणामको वा ? न वा?' इति विन्यासनार्थमुक्तोऽसीति ।।
यः पुनरपरिणामकः स ब्रूयात्[भा.७९९] किं ते पित्तपलावो, मा बीयं एरिसाई जंपाहि ।
माणं परो वि सोच्छिहि, कहं पि नेच्छामो एयस्स। वृ-भो आचार्य! किंते पित्तप्लावः समजनि यदेवमुन्मत्तवदसम्बद्धं प्रलपसि?,यद्येकवारं ममाग्रे जल्पितं तर्हि जल्पितं नाम, मा पुनर्द्वितीयं वारं ईद्दशानि सावधानि वचनानि जल्पेति; यतः मा “णं" इति एतत् त्वदीयं वचनं 'परोऽपि' अन्योऽपि श्रोष्यति, वयं पुनः कथामपि नेच्छामः ‘एतस्य' अर्थस्य आम्रानयनलक्षणस्य किं पुनः कर्त्तव्यतामित्यपिशब्दार्थः ।
यः पुनरतिपरिणामकः स एवमभिदध्यात्[भा.८००] कालो सिं अइवत्तइ, अम्ह वि इच्छा न भाणिउं तरिमो।
किं एच्चिरस्स वुत्तं, अन्नाणि वि किं व आणेमि ।। वृ-क्षमाश्रमणाः! यदि युष्माकमानैःप्रयोजनंततइदानीमप्यानयामि, यतः “सिं" इति एषामाम्राणां कालः 'अतिवर्त्तते' अतिक्रामति, अद्य तावत् तानि तरुणानि वर्तन्ते अत ऊर्द्ध जरठभविष्यन्तीत्यर्थः । यद्वाऽस्माकमप्याम्राणां ग्रहणे महती इच्छा, परं किं कुर्म ? न वयं यौष्माकीणभयभीता भणितुंकिमपि “तरामु"त्ति शक्नुमः ।अथवा यद्याम्राण्यपिग्रहीतुंकल्पन्ते ततः किमियतश्चिरात् कालादुक्तम् ?, वञ्चिताः स्मो वयमियन्तं कालमिति भावः । किं वा अन्यान्यपिमातुलिङ्गादीन्यानयामीति॥अनयोरपरिणामका-ऽतिपरणामकयोरेवंजल्पतोराचार्येणेदमुत्तरं दातव्यम्[भा.८०१] नाभिप्पायं गिण्हसि, असमत्तेचेव भाससी वयणे ।
सुत्तंबिल-लोणकए, भिन्ने अहवा वि दोचंगे। वृ-भोमुग्ध! त्वंमदीयमभिप्रायं नगृह्णासि, किन्तूत्सुकतया मदीये वचनेऽसमाप्तएवेद्दशं समयविरुद्धं निष्ठुरं वचनंभाषसे; मयापुनरनेनाभिप्रायेणाभिहितम्-“सुत्तंबिल" इत्यादि,शुक्लंकाञ्जिकं तदेवात्यम्लं शुक्लाम्लं तेन लवणेन वा कृतानि-भावितानि शुक्लाम्ल-लवणकृतानि भिन्नानि च । किमुक्तं भवति ?-न मया भवतः पादपरिणतान्याम्राण्यानायितानि, किन्तु चतुर्थरसिकभावितानि वा लवणभावितानि वा; यद्वा द्रव्यतो भावतश्च भिन्नानि, परिणतानीति भावः।अथवा “दोच्चंगे" ति सामयिकी संज्ञा, ओदनादिमूलाङ्गापेक्षया भोजनस्य द्वितीयाङ्गानिराद्धशाकरूपाणि तानि मयाआनायितानीति प्रक्रमः ॥ “अंबाई" इत्यत्राऽऽदिशब्दसूचितौवृक्ष -बीजदृष्टान्ताविमौ-आचार्या भणन्ति-अज्जो! रुक्खेहिं बीएहिं वापओअणंति ।अत्रापि परिणामकादिजल्पस्तथैवावसातव्यः । नवरमपरिणामका-ऽतिपरिणामको प्रति सूरिणा प्रतिवक्तव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org