________________
२०६
बृहत्कल्प-छेदसूत्रम् -१
सुखशीलवियत्नाः सुखशीलव्यात्मानो वा तेषाम्, उभयत्रापि पार्श्वस्थादीनामित्यर्थः । 'प्रवचनरहस्य' छेदग्रन्थार्थतत्वं कथयति ॥
कथं पुनस्तेन पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातो भवति ? इति उच्यते[भा. ७७१] निस्साणपदं पीहइ, अनिस्साणविहारयं न रोएइ । तं जाण मंदधम्मं, इहलोगगवेसगं समणं ॥
-
- निश्रीयते मन्द श्रद्धाकैरासेव्यत इति निश्राणं तच्च तत् पदं निश्राणपदम्अपवादपदमित्यर्थः, तदेवयः 'स्पृहयति' रुचिपदमवतारयति, अनिश्राणविहारितां तु न रोचयति, तमेवंविधं श्रमणं जानीहि मन्दधर्माणं 'इहलोकगवेषकं' मनोज्ञभक्त पानाद्युपभोगेन केवलस्यैवेहलोकस्य चिन्तकं परलोकपराङ्मुखम् । एवंविधस्य च प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहाव्रतभेदः षट्कायवधश्च भवतीति युक्तमुक्तं "तेनानुज्ञातः” इति ॥ गतं दुर्बलचारित्रद्वारम् । अथाऽऽचार्यपरिभाविद्वारमाह
[भा. ७७२] डहरो अकुलीनो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति । अविअप्पलाभलद्धी, सीसो परिभवइ आयरियं ॥
वृ- कश्चित् कुशिष्यः सूचया असूचया वा आचार्यं परिभवति । सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनम्, यथा कोऽपि वयःपरिणतः साधुर्बालकमाचार्यं ब्रवीति - अद्यापि 'डहराः' बालका वयम्, किं नामास्माकमाचार्यपदस्य योग्यत्वम् ? इति । असूचा स्फुटमेव परदोषोट्टनम्, यथाभो आचार्य ! त्वं तावदद्यापि "डहरो" मुग्धः क्षीरकण्ठो वर्तसे, अतः कीद्दशं भवत आचार्यत्वम्? इति । योऽकुलीन आचार्यस्तमुद्दिश्य भणति अहो ! उत्तमकुलसम्भूता अमी योग्या एवाssचार्यपदस्य, वयं तु ही नकुलोत्पन्नाः, कुतोऽस्माकं सूरिपदयोग्यता ? । यद्वा धिक्कष्टं यदकुलीनोऽप्ययमाचार्यपदे निवेशित इति । तथा 'दुर्मेधाः' मन्दप्रज्ञः 'द्रमकः' नाम दरिद्रो भूत्वा यः प्रव्रजितः 'मन्दबुद्धि' स्वल्पमति । अपि सम्भावनायाम्, सम्भाव्यते कुतोऽपि कारणादेवंविधोऽप्याचार्य इति । अल्पा- तुच्छा वस्त्र - पात्रादिलाभे लब्धिर्यस्य सोऽल्पलाभलब्धिः । एतानप्येवमेव सूचया असूचया च परिभवति ।। अथ शिष्यपदं व्याचष्टे
[भा. ७७३] सो वि य सीसो दुविहो, पव्वावियगो अ सिक्खओ चेव । सो सिक्खओ अतिविहो, सुत्ते अत्थे तदुभए य ॥
वृ-यः शिष्यो गुरून् परिभवति सोऽपि च द्विविधः प्रव्राजितकश्च शिक्षकश्चैव । यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहितः स प्रव्राजितकः । शिक्षकस्तु गच्छान्तरादध्ययनार्थमागतः । स च शिक्षकस्त्रिविधः सूत्रेऽर्थे तदुभये च, सूत्रग्राहकोऽर्थग्राहकस्तदुभयग्राहकश्चेत्यर्थः ॥ गतमाचार्यपरिभाविद्वारम् । सम्प्रति वामावर्त्तद्वारमाह
[भा. ७७४] एहि भणिओ उ वच्चइ, वञ्चसु भऊणिओ दुतं समल्लियइ । भन्नति तं तह, अकरेंतो वामवट्टो उ ॥
वृ-यः शिष्यः 'एहि ' आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् 'द्रुतं' शीघ्रं समालीयते । एवमन्यदपि कार्यं यद् यथा भण्यते तत् तथा अकुर्वाणो वामावर्त्त उच्यते ॥
अथ पिशुनद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org