________________
१६
बृहत्कल्प-छेदसूत्रम् -१. मनिन्द्रियनिश्रितं च । अनिन्द्रियं मनः । सम्प्रतीन्द्रिया-ऽनिन्द्रिययोर्विषयविभागमाह[भा.४०] अत्यानंतरचारिं, नियतं चित्तं तिकालविसयंतु।
अत्थे य पडुप्पन्ने, विनियोगं इंदियं लहइ ॥ वृ-अर्थे-शब्दादाविन्द्रियव्यापारदनन्तरंचरति-व्याप्रियत इत्येवंशीलमर्थानन्तरचारिइन्द्रिये प्रथमं व्यापृते पश्चान्मनो व्याप्रियत इति भावः; 'नियतं' नियतार्थविषयम्, नैककालमनेकविषयमित्यर्थः, 'चित्तं मनः । पुनः कथम्भूतम्? इत्याह-'त्रिकालविषयं त्रिष्वपिकालेषु यथायोग्यं विषयो यस्यतत्तथा । 'इन्द्रियंपुनः' चक्षुरादिकं विनियोग' व्यापारलभते प्रत्युत्पन्ने वर्तमानेऽर्थे, वर्तमानार्थविषयम् नाऽतीता-ऽनागतार्थविषयमिति भावः ॥ [भा.४१] मतिविसयं मतिनाणं, मतिपुव्वं पुन भवे सुयन्नाणं ।
तंपुन समतिसमुत्थं, परोवदेसा स सव्वं पि॥ वृ-मतिज्ञानं मतिविषयं' मत्यनुसारि, यस्य याद्दशीमतिस्यस्यतदनुसारंमतिज्ञानप्रवर्तत इत्यर्थः । श्रुतज्ञानं पुनर्भवति मतिपूर्व' मतिकारणकम्, श्रुतज्ञानं हि वाच्य-वाचकभावेन शब्दप्लावितस्याऽर्थस्य ग्रहणम्, वाच्य-वाचकभावेन च शब्दः प्रवर्तते मत्यवधारितेऽर्थ इति । 'तत् पुनः' श्रुतज्ञानं सर्वमपि मूलभेदापेक्षया द्विविधम्, तद्यथा-स्वमतिसमुत्थं 'परोपदेशाद्वा' परोपदेशसमुत्थं चेत्यर्थः । तत्र स्वमतिसमुत्थं प्रत्येकबुद्धानां पदानुसारिप्रज्ञानां वा, परोपदेशसमुत्थमस्मदादीनाम् ॥तत् कतिविधम् ? इति तभेदप्रदर्शनार्थमाह[भा.४२] अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसियं च ।
गमियं अंगपविठं, सत्त वि एए सपडिवक्खा ॥ वृ- अक्षरश्रुतं संज्ञिश्रुतं सम्यक्श्रुतं सादिश्रुतं सपर्यवसितं गमिकम् अङ्गप्रविष्टमिति । एतानि सप्ताऽपि पदानि सप्रतिपक्षाण्यवगन्तव्यानि, ततश्चतुर्दशप्रकारं भवति । तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतमसंज्ञिश्रुतं सम्यक्श्रुतं मिथ्याश्रुतं सादिश्रुतमनादिश्रुतं सपर्यवसितमपर्यवसितं गमिकमगमिकम् अङ्गप्रविष्टमनङ्गप्रविष्टंच ।। तत्राऽक्षरश्रुतप्रतिपादनार्थमाह[भा.४३] अक्खरतिगरूवणया, पढमनयादेसतो न तं खरति ।
अभिलप्पा पुण बावा, होति खरा अक्खरा चेव ॥ - अक्षरत्रिकस्य-संज्ञाक्षरस्य लब्ध्यक्षरस्य व्यञ्जनाक्षरस्य चेत्यर्थः रूपणका-प्ररूपणा कर्तव्या।तत्रय व्यञ्जनाक्षरंतत्प्रथमनयः-नैगमनयस्तस्याऽऽदेशेन 'नक्षरति' नस्वभावाच्चलति, नित्यमित्यर्थः । तथा च तन्मतानुसारिणो मीमांसका नित्यं शब्दमातिष्ठमानाः प्रतीता एव । ये पुनरभिलाप्या भावास्ते क्षराश्च भवन्त्यक्षराश्च । तत्र क्षराघटादयः, अक्षरा धर्मास्तिकायादयः।।
अथ कीदृशं संज्ञाक्षरम् ? इति तत्प्रतिपादनार्थमाह[भा.४४/१] संठाणमगाराई, अप्पाभिप्पायतो व जंजस्स।
वृ- यद् लिपिभेदतः संस्थानमकारादेः, यथा-कलशाकृतिष्टकारः, तत् तथासंस्थानविशिष्टमकारादिसंज्ञाक्षरम्।अथवा 'आत्माभिप्रायतः' आत्मेच्छया यद्यस्यसंस्थानंचिह्नविशेषरूपं क्रियते तत् संज्ञाक्षरम् ।। सम्प्रति लब्ध्यक्षरमाह[भा.४४/२] लद्धी पंचविगप्पा, जस्सुवलब्भो उ जो अत्यो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org