________________
बृहत्कल्प-छेदसूत्रम् -१
व्रतषटकोपयोगलक्षणैः सम् इति - समुदितैः प्रकर्षेण युक्तः सम्प्रयुक्तः 'गणपरिवर्त्ती' गच्छवर्त्तापकोऽनुज्ञातस्तीर्थकर - गणधरैः ॥ अथवा
[भा. ७०९] सत्तऽट्ठ नवग दसगं, परिहरई जो विहारकप्पी सो । तिविहं तीहि विसुद्धं, परिहर नवएण भेएण ॥
वृ- य आचार्यादि सप्तविधमष्टविधं नवविधं दशविधं प्रायश्चित्तं परिहरति, कथम्भूतं तत् ? इत्याह- 'त्रिविधं' दान- तपः- कालप्रायश्चित्तभेदादेकैकमपि त्रिभेदं परिहारविषयेण नवकेन भेदेन परिहरति । तद्यथा - मनसा वचसा कायेन स्वयं परिहरति अन्यैः स्वपरिवारसाधुभि परिहारयति अन्यान् परिहरतोऽनुमन्यते । याभि प्रतिसेवनाभि प्रतिसेविताभि सप्तविधादिकं प्रायश्चित्तं भवति ताः करणत्रय - योगत्रयविशुद्धं परिहरतीति भावः ॥ अथ कथं सप्तविधं प्रायश्चित्तं भवति ? इति उच्यते - आलोचनार्हं प्रतिक्रमणार्हं तदुभयार्हं विवेकार्हं व्युत्सर्गार्हं तपोऽर्हं छेदार्हमिति । अथ मूला -ऽनवस्थाप्य पाराञ्चिकानि क्वान्तर्भवन्ति ? उच्यते
[भा. ७१०]
१८६
दुविहो अ होइ छेदो, देसच्छेदो अ सव्वछेदो अ । मूला - ऽनवट्ठ- चरिमा, सव्वच्छेओ अतो सत्त ॥
वृ- इह च्छेदो द्विविधो भवति-देशच्छेदश्च सर्वच्छेदश्च । पञ्चकादिकः षण्मासपर्यन्तो देशच्छेदः । मूला-ऽनवस्थाप्य-पाराञ्चिकानि पुनर्देशोनपूर्वकोटिप्रमाणस्यापि पर्यायस्य युगपत् छेदकत्वात् सर्वच्छेदः । एष द्विविधोऽपि सामान्यतश्छेदशब्देन गृह्यत इति विवक्षया सप्तविधं प्रायश्चित्तम् ।। अथाष्टविधं कथं भवति ? इति उच्यते
[भा. ७११] छिजंते वि न पावेज कोई मूलं अओ भवे अट्ठ । चिरघाई वा छेओ, मूलं पुण सज्जधाई उ ।
वृ- छिद्यमानेऽपि पर्याये कश्चित् चिरप्रव्रजितत्वेन मूलं यदा न प्राप्नुयात् तदा तस्य षण्मासच्छेदादूर्द्ध यद् मूलं दीयते तत् प्राग्दत्तच्छेदविलक्षणत्वादष्टमं भवतीत्यष्टौ प्रायश्चित्तभेदा भवेयुः । यद्वा छेद- मूलयोस्तात्पर्यार्थोऽयमभिधीयते-चिरघाती छेदः, चिरेण पर्यायस्य च्छेदकत्वात्। सद्योधाति मूलम्, झगित्येव निशेषपर्यायत्रोटकत्वादित्यष्टविधं प्रायश्चित्तम् ॥
अथ नवविध-दशविधे प्रतिपादयति
[भा. ७१२]
वूढे पायच्छित्ते, ठविज्जई जेन तेन नव होंति ।
जं वसइ खित्तबाहिं, चरिमं तम्हा दस हवंति ॥
वृ- येन कारणेन द्वादशवार्षिकादिके परिहारतपः प्रायश्चित्ते व्यूढे सत्यनवस्थाप्यो व्रतेषु स्थाप्यते नान्यथा, तेन मूलादनवस्थाप्यं विलक्षणमिति कृत्वाऽनवस्थाप्यप्रक्षेपाद् नव भेदा भवन्ति । यत् पुनस्तदेव परिहारतपः प्रायश्चित्तं वहमानः सन्नेकाकी सक्रोशयोजनप्रमाणक्षेत्राद् बहिर्वसति तदेतातांशेनानवस्थाप्यात् 'चरमं' पाराञ्चितं विभिन्नमिति तस्माद् दश प्रायश्चित्तभेदा भवन्तीति ॥ उक्तो विहारकल्पिकः । तदुक्तौ च व्याख्याता “सुत्ते अत्थे तदुभय" इत्यादिका प्रतिद्वारगाथा । अथ कल्पिकद्वारमुपसंहरन्नाह
[भा. ७१३]
Jain Education International
एयं दुवालसविहं, जिनोवइट्टं जहोवएसेणं । जो जाणिऊण कप्पं, सद्दहणाऽऽयरणयं कुणइ ॥
For Private & Personal Use Only
www.jainelibrary.org