________________
१६५
पीठिका - [भा. ६३२] [भा.६३२] दमए दूभगे भट्टे, समणच्छन्ने अतेनए ।
नय नाम न वत्तव्यं, पुढे रुढे जहावयणं ।। वृ-द्रमके दरिद्रे 'दुर्भगे' अनिष्टे 'भ्रष्टे' राज्य(ज)पदच्युते “समणच्छन्ने"त्तिभावप्रधानत्वात् श्रमणशब्दस्य श्रामण्येन-श्रमणवेषेण च्छन्ने-आच्छादितगार्हस्थ्ये 'स्तेनके' चौरे प्रथमं कस्येति पृष्टेततः स्वह्रदयसमुत्थया शङ्कया 'रुष्टे' कषायितेतस्य समाधानविधानार्थंनचनामनवक्तव्यम् किन्तु वक्तव्यमेव वचनस्यानतिक्रमेण 'यथावचनं' यथायोगमाशङ्कापनोदकं वाक्यमित्यर्थः । तच्च यथावसरं पुरस्ताद् वक्ष्यते ॥तत्र प्रथमं द्रमकद्वारं विवृणोति[भा.६३३] किं दमओ हं भंते!, दमगस्स वि किं मे चीवरा नत्थी।
दमएण विकायव्वो, धम्मो मा एरिसंपावे ॥ वृ-कस्येतिपृष्टः कोऽपिब्रूयात्-भदन्त! भवद्भि किमहंद्रमकः सम्भावितोयेनैवं पृच्छयते? यद्वा यद्यप्यहं द्रमकस्तथाऽपि किं मे चीवराण्यपि न सन्ति ? किन्तु सन्त्येव; किञ्च द्रमकेणापि धर्मकर्तव्यः, कुतः? इत्यह-माईशं दारिद्योपद्रवलक्षणंदुःखं भूयः प्राप्नुयामिति कृत्वा । तस्य पुरतः साधुभिरभिधातव्यम्-भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः किन्तु सार्वज्ञोऽस्माकमयमुपदेशः, यतः-कदाचित् तव स्वजन-रिजनमित्रादीनां सत्कमिदं भवेत्, ते चापरस्य तथाविधस्याभावेऽप्रतिकं कुर्युअभिनवंवा वस्त्रं सम्मूर्छयेयुः क्रीणीयुर्वा, अस्माकंच तृतीयव्रतातिचारः स्यात्; यद्वा श्रमणादिभिःस्तेनपर्यन्तैरिदमस्मदर्थं स्थापितं भवेदित्यादयो दोषाः कस्येत्यपृच्छायांनपरिहर्तुशक्यन्ते इत्युक्ते यदिसब्रूयात्-“ममैवैतद् नान्यस्य' इति तदा निर्दोष मत्वा प्रतिगृह्यते । एवं दुर्भगादिष्वपि पदेषु यथायोगमुपयुज्य भावना कार्या ।। दुर्भगद्वारमाह. [भा.६३४] जइ रन्नो भज्जाए, व दूभगो दूभगा वजइ पइणो।
किं दूभगो मि तुब्भ वि, वत्था विव दूभगा किं मे। वृ-दुर्भगोब्रूयात्-यद्यहं राज्ञो भार्याया वा 'दुर्भगः' द्वेष्यस्तत् किं युष्माकमपि दुर्भगः? । यदि वा काचिदविरतिका दात्री तदा ब्रूयात्-यद्यहं पत्युर्दुर्भगा तत् किं युषमाकमपि दुर्भगा? वस्त्राण्यपि वा किममूनि मे दुर्भगाणि यदेवं दीयमानान्यपि 'कस्य सत्कानि?' इति पृच्छयन्ते? अथ भ्रष्ट-श्रमणच्छन्नद्वारद्वयमाह[भा.६३५] जइ रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छहेयाणि।
अत्थि महं साभरगा, मा हीरेज त्ति पव्वइओ॥ वृ-राजपदच्युतः प्राह-यद्यहं राज्या भ्रष्टः तत् किं चीवरेभ्योऽपि ? नैवेत्यर्थः, ‘पश्यत' अवलोकयत एतानि मदृहे भूयांसि वासांसीतिब्रुवन् हस्तसंज्ञया दर्शयति । श्रमणच्छन्नः प्राहसन्तिमम पार्श्वे बहवः “साभरग"त्ति देशीवचनाद्रूपकाः, तेचमा राजकुलादिनाहियेरन्नित्यहं 'प्रव्रजितः' शाक्य-तापस-परव्राजका-ऽऽजीवकाख्यानां श्रमणानामन्यतमः संवृत्त इत्यर्थः ।। अथ स्तेनको यद् ब्रूयात् तदाह[भा.६३६] अस्थि मे घरे वि वत्था, नाहं वत्थाइँ साहु ! चोरेमि ।
___ सुटु मुणिअंच तुब्भे, किं पुच्छह किं व हं तेनो॥ वृ-सन्ति 'मे' मम गृहे वस्त्राणि अत एव हे साधो! नाहं सवस्त्राणि चोरयामि; यद्वा 'सुष्टु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org