________________
पीठिका - [भा. ६२५]
१६३
[भा.६२५] तन विनन संजयट्ठा, मूलगुणा उत्तरा उ पज्जणया।
गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो ।। वृ- इह संयतार्थं वस्त्रनिष्पत्तिहेतोर्यत् 'तननं' तानपरिकर्म 'वितननं च' वानपरिकर्म क्रियते एतौ मूलगुणौ मन्तव्यौ । “उत्तरा' उत्तरगुणरूपा 'पायनता' यद्वस्त्रं निष्पन्नं सत्खलिकां पाय्यते, उपलक्षणमिदम्, तेन यद् मोटयित्वा सलेषु प्रक्षिप्यते, तदादयो धावन-धूपनादयश्च वस्त्रस्योत्तरगुणा द्रष्टव्याः । अत्र चतुर्भङ्गी-तनन-वितनने संयतार्थं पायनमपि संयतार्थम् १, तनन-वितनने संयतार्थं पायनं स्वार्थम् २, तनन-वितनने स्वार्थं पायनं संयतार्थम् ३, तननवितनने स्वार्थं पायनमपि स्वार्थम् ४ । अत्रायेषु त्रिषु गुरुका गुरुका लघुकाश्च तपः-कालाभ्यां विशेषिताः प्रायश्चित्तम् । तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेन च गुरवः, द्वितीयेऽपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः, तृतीये चत्वारो लघुकाः कालेन गुरुवस्तपसा लघवः । "चरमए सुद्ध"त्ति 'चरमे' चतुर्थे भङ्गे द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वाच्छुद्धः॥
अथ प्रक्षेपकादयो दोषा; कथं भवेयुः ? इत्यत आह[भा.६२६] समणे समणी सावग, साविग संबंधि इड्डि मानाए।
राया तेने पक्खेवए अनिखेवगंजाणे ।। . वृ-षष्ठी-सप्तम्योरर्थं प्रयभेदात् श्रमणस्य श्रमण्याः श्रावकस्य श्राविकायाः सम्बन्धिन ऋद्धिमतो मामाकसत्काया भार्याया राज्ञः स्तेनस्य चसम्बन्धी प्रक्षेपको भवति । प्रक्षेपणं प्रक्षेपकः नाचि मंसि च इति भावे णकप्रत्ययः, यथा अरोचनं अरोचक इत्यादि । निक्षेपक मप्येतेष्वेव स्थानेषु जानीयादितिसङ्ग्रहगाथा समासार्थः साम्प्रतमेनामेव व्याख्यानयति[भा.६२७] लिंगत्थेसु अकप्पं, सावग-नीएसु उग्गमासंका।
इड्डिअपवेस साविग, इड्डिस्स व उग्गमासंका॥ । वृ-ये श्रमण-श्रमणीजना लिङ्गमात्रधारिणस्तेउद्गमादिभिर्दोषैरशुद्धानिवस्त्राणि गृह्णन्ति स्वयमेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषु लिङ्गस्थेषु "अकल्प्यम्' अकल्पनीयमिति हेतोः साधवो न गृह्णन्ति, ततस्ते लिङ्गस्थाः संविग्नबहमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः 'यदि साधवो वस्त्राणि गवेषयेयुः तदा प्रददध्वम्' इति कृतवा । तथा श्रावकेषु उपलक्षणत्वात् श्राविकासु निजकेषु-सम्बन्धिषु भ्रातृ-भगिन्यादिषु उद्गमदोषाशङ्कया साधवो न गृहीयुरिति तेऽपि तथैवान्यत्र स्थापयेयुः । 'ऋद्धिमतः श्रेष्ठिसार्थवाहादेगृहे यतस्ततः प्रवेशो न लभ्यन्ते, तस्य पली श्राविका, सा भक्तिवशादन्यत्र प्रक्षिपेत्; यद्वा स ऋद्धिमान् पाषण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् तेषु साधूनामुद्गमाशङ्का, ततो निमन्त्रिता अपि न स्वीकुर्यु तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् ॥ [भा.६२८] एमेव मामगस्स वि, सड्डी मज्जा उ अन्नहिं ठवए।
निवतप्पिंडविवज्जी, मा होज्ज तदाहडं तेणे ॥ वृ. 'एवमेव' ऋद्धिमप्रकारेणैव ‘मामाकस्यापि' 'प्रान्तत्वेने लुत्वेन वा कस्यापि स्वगृहे प्रवेशंनददाति' इत्येवंलक्षणस्यभार्या श्राद्धिका भक्तिभरॆरिता सती तथैवान्यस्मिन् गृहे स्थापयेत्। 'नृपः' राजा सोऽप्यन्यत्र स्वपुरुषैः प्रक्षेपयेत्, यतस्तस्य-राज्ञः पिण्डम्-आहार-वस्त्रादिलक्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org