________________
पीठिका- [भा. ६०८]
१५७
वृ-जघन्यादीनामेकतरस्यार्थाय निर्गतो वाशब्दो वैपरीत्यस्य प्रकारान्तरद्योतने 'अन्यत्' येन न प्रयोजनं तद् गृह्णीयात् तत्र स्वस्थानप्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य निर्गतो मध्यमं गृह्णाति मासिकम्, जघन्यं गृह्णह्वाति पञ्चकम्; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति मासलघु; तथाऽऽज्ञाभङ्गादयश्च दोषाः । यत् तेन विवक्षितवस्त्रेण कार्यं तस्यान्येनाप्रतिपूरणम् । जघन्येन प्रयोजने समापतिते मध्यमोत्कृष्टयोर्गृह्यमाणयोरतिरिक्तोपकरणदोषः । तथोत्कृष्टादिकं छित्वासीवित्वा वा यद् मध्यमादिकं करोति “तगं'"ति तन्निष्पन्नं प्रायश्चित्तम्, न पुनर्यच्छिनत्ति तन्निष्पन्नम् । तथाहि-उत्कृष्टं छित्वा ,मध्यमं करोतिमासलघु, जघन्यं करोति पञ्चकम्: मध्यमंछित्वा सीवित्वा चोत्कृष्टं करोति चतुर्लघु, जघन्यं करोति पञ्चकम्: जघन्यं सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोतिमासलघुइति। एवं यत् करोति तन्निष्पन्नमेव प्रायश्चित्तमापद्यते, न पुनश्छिद्यमानसीव्यमानवस्त्रंनिष्पन्नम्।अत्राप्याज्ञाभङ्गादयोदोषाद्रष्टव्याः।नवरं विराधना द्विधा-संयमविराधना आत्मविराधना च । संयमविराधना वस्त्र छिद्यमाने सीव्यमाने वा तद्गताः षट्पदिकादयो विनाशमापद्यन्ते।आत्मविराधना हस्तोपघातादिका । तथा यावद्वस्त्र छिद्यते सीव्यते वा तावत् सूत्रा-ऽर्थपरिमन्थ इत्यादयोदोषाअभ्यह्य वक्तव्याः ।यत एवंदोषजालमुपढौकतेततः कारणाभावे छेदन-सीवनादि न कर्त्तव्यम् । कारणे तु यतनया कुर्वाणः शुद्धः ॥अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छवासिनाम् ? कति गच्छनिर्गतानाम् ? इत्यत आह[भा.६०९] उद्दिसिय पेह अंतर, उज्झियधम्मे चउत्थए होइ ।
चउपडिमा गच्छ जिने, दोण्हऽग्गहऽभिग्गहऽन्नयरा ॥ वृ-इह यद् वस्त्र गुरुसमक्षम् ‘उद्दिष्टं' प्रतिज्ञातं यथा 'अमुकं जघन्यं मध्यममुत्कृष्टं वा आनेष्ये' तदेवगृहिभ्यो याचमानस्योद्दिष्टवस्त्रमितिप्रथमाप्रतिमा।तथा “पेह"तिप्रेक्षाअवलोकनं तत्पुरस्सरं यद् वस्त्र याच्यते तत् प्रेक्षावस्त्रम् । तथाऽभिनवं वस्त्रयुगलं परिघाय प्रावृत्य च पुरातनं स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्र अन्तराले यद् वाच्यते तदन्तरावस्त्रम्। तथा उज्झनम्-उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि
"धर्मो पमोपमा-पुण्य-स्वभावा-ऽऽचार-धन्वसु ॥
सत्सङ्गेऽर्हत्यहिंसादौ, न्यायोपनिषदोरपि।" इति वचनादनेकेष्वर्थेषु रूढः तथाऽपीह प्रकमात् स्वभावार्थो द्रष्टव्यः, तत उज्झितमेव धर्म-स्वभावो यस्य तदुज्झितधर्मपरित्यागार्हमित्यर्थः । एतच्च वस्त्रैषणासूत्रक्रमप्रामाण्यात् चतुर्थमेव चतुर्थकं भवति । एताश्चतस्रः 'प्रतिमाः' प्रतिपत्तयो वस्त्रस्य ग्रहणप्रकारा इत्यर्थः, “गच्छत्ति सूचकत्वात्सूत्रस्यगच्छवासिनामेताश्चतस्रोऽपि भवन्ति । “जिने"त्ति जिनकल्पिकानांयावज्जीवं द्वयोरुपरितनयोः आङ्-मर्यादया ग्रहः-स्वीकार आग्रहः, द्वयोरेवोपरितनयोहणं नाधस्तनयोयोरित्यर्थः । तत्राप्यन्यतरस्यामभिग्रहः, किमुक्तं भवति?-यदा तृतीयस्यां ग्रहणं न तदा चतुथ्याम, यदा चतुर्थ्या न तदा तृतीयायामिति नियुक्तिगाथासमासार्थः॥
अथैनामेव विवृणोति[भा.६१०] उद्दिट्ट तिगेगयरं, पेहा पुन द? एरिसं भणइ।
अन्न नियत्थऽत्थुरिए, इतरऽवणिंतो उ तइयाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org