________________
पीठिका - [भा. ६०६]
१५५ वा उत्कृष्टं करोति चतुर्लघु, जघन्यं करोति रात्रिन्दिवपञ्चकम्; जघन्यं छित्वा सीवित्वा वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम् । यत एवं स्वसथानप्रायश्चित्तं ततो विपर्यस्तग्रहणकरणे न विधेये॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे पीठिकायाः भाष्यस्य
मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता।
|-अथ क्षेमकीर्ति आचार्येण विरचिता पीठिकावृत्तिः॥१॥ नतमघवमौलिमण्डलमणिमुकुटमयूखधौतपदकमलम् ।
सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम् ।। ॥२॥ चरमचतुर्दशपूर्वी, कृतपूर्वी कल्पनामकाध्ययनम् ।
सुविहितहितैकरसिको, जयति श्रीभद्रबाहुगुरु ॥ ॥३॥ कल्पेऽनल्पमन), प्रतिपदमर्पयति योऽर्थनिकुरुम्बम् ।
श्रीसङ्घदासगणये, चिन्तामणये नमस्तस्मै॥ ॥४॥ शिवपदपुरपथकल्पं, कल्पं विषममपि दुःषमारात्रौ ।
सुगमीकरोति यच्चूर्णिदीपिका स जयति यतीन्द्रः ।। ॥५॥ आगमदुर्गमपदसंशयादिपातो विलीयते विदुषाम्।
यद्वचनचन्दनरसैर्मलयगिरिः स जयति यथार्थः ॥ ॥६॥ श्रुतलोचनमुपनीय, व्यपनीय ममापि जडिमजन्मान्ध्यम् ।
यैरदर्शि शिवमार्ग, स्वगुरूनपितानहं वन्दे । ॥७॥ ऋजुपदपद्धतिरचनां, बालशिरःशेखरोऽप्यहं कुर्वे।
यस्याः प्रसादवशतः,श्रुतदेवी साऽस्तु मे वरदा ।। ॥८॥ श्रीमलयगिरिप्रभवो, यां कर्तुमुपाक्रमन्त मतिमन्तः।
सा कल्पशास्त्रटीका, मयाऽनुसन्धीयतेऽल्पधिया॥ इह श्रीमदआवश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिशास्त्रसंसूत्रणसूत्रधारः परोपकारकरणैकदीक्षादीक्षितः सुगृहीतनामधेयः श्रीभद्रबाहुस्वामी सकर्णकर्णपुटपीयमान-पीयूषायमान ललितपदकलितपेशलालापकं साधु-साध्वीगतकल्प्या-ऽकल्प्यपदार्थसार्थविधि-प्रतिषेधप्ररूपकं यथायोगमुत्सर्गा-ऽपवादपदपदवीसूत्रकवचनरचनागर्भं परस्परमनुस्यूताभि-सम्बन्धबन्धुरपूर्वापरसूत्रसन्दर्भ प्रत्याख्यानाख्यनवमपूर्वान्तर्गताऽऽचारनामकतृतीय-वस्तुरहस्यनिष्यन्दकल्पं कल्पनामधेयमध्ययनं नियुक्तियुक्तं नियूंढवान् । अस्य च स्वल्प-ग्रन्थमहार्थतया प्रतिसमयमपसर्पदवसर्पिणीपरिणतिपरिहीयमानमति-मेघा-धारणादिगुण-ग्रामाणामैदंयुगीनसाधूनां दुरवबोधतया च सकलत्रिलोकीसुभगङ्करणक्षमाश्रमणनामधेयाभिधेयैः श्रीसङ्घदासगणिपूज्यैः प्रतिपदप्रकटितसर्वज्ञाज्ञाविराधनासमुद्भूतप्रभूतप्रत्यपायजालं निपुणचरण-करणपरिपालनोपायगोचरविचारवाचालं सर्वथादूषणकरणेनाप्यदूष्यं भाष्यं विरचयाञ्चक्रे । इदमप्यतिगम्भीरतया मन्दमेधसां दुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकृता चूर्णि- रासूत्रिता तथापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org