________________
पीठिका - [भा. १२]
उक्तं नामेन्द्रलक्षणम्, अधुना स्थापनेन्द्रलक्षणमाह[भा. १३]
९
सब्भावमसब्भावे, ठवणा पुण इंदकेउमाईया | इत्तरमनित्तरा वा, ठवणा नामं तु आवकहं ॥
वृ- 'स्थापना' स्थापनेन्द्रः पुनः सद्भावेऽसद्भावे च 'इन्द्रकेत्वादिका' इन्द्रकेतुप्रभृतिको द्रष्टव्यः, अत्राऽऽदिशब्दादिन्द्रप्रतिमा -ऽक्ष-वराटकादिपरिग्रहः । इयमत्र भावना-या इन्द्र इति स्थापना अक्ष-वराटिकादिषु असदभावेन, या चेन्द्रकेत्विन्द्रप्रतिमादिषु सद्भावतः स स्थापनेन्द्रः ।। आह नाम-स्थापनयोः कः प्रतिविशेषः ? उच्यते- “इत्तर" इत्यादि । स्थापना इत्वरा अनित्वरा च भवति, यावद्रव्यभाविनी अथावद्द्रव्यभाविनी चेत्यर्थः; नाम पुनर्नियमात् 'यावत्कधिकं' यावद्रव्यभावि; एष प्रतिविशेषः ।। द्रव्येन्द्रमाह
[ भा. १४] दव्वे पुन तल्लद्धी, जस्सातीता भविस्सते वा वि । वा व अनुवत्तो, इंदस्स गुणे परिकहेइ ॥
वृ- 'द्रव्ये' द्रव्यविषयः पुनः इन्द्रो यस्य 'तल्लब्धि' इन्द्रलब्धि अतीता भविष्यति च स प्रतिपत्तव्यः । किमुक्तं भवति ? यः पूर्वमिन्द्रत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रमं भूतभावत्वाद् भाविभावत्वाच्च द्रव्येन्द्रः । उक्तं च
भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके ।
तद् द्रव्यं तत्त्वज्ञैः, सचेतना -ऽचेतनं कथितम् ।।
यो वाऽपि इन्द्रस्य गुणान् परस्मै परिकथयति, परमनुपयुक्तः, सोऽपि द्रव्येन्द्रः, “अनुपयोगोद्रव्य”मिति वचनात् ॥ उक्तो द्रव्येन्द्रः, सम्प्रति भावेन्द्रमाह
[भा. १५] जो पुन जहत्त्तो, सुद्धनयाणं तु एस भाविंदो । इंदरस व अहिगारं, वियाणमाणो तदुवउत्तो ॥
वृ-यःपुनः ‘यथार्थेन’ यथावस्थितेनार्थेन परमैश्वर्यलक्षणेन "इदु परमैश्वर्ये” इति वचनात् साक्षादिन्द्रनाम-गोत्राणि कर्माणि वेदयत इत्यर्थः, स भावेन्द्रः । एषः 'सुद्धनयानां' शब्दादीनां यथावस्थितार्थग्राहकाणां वर्त्तमानविषयिकाणां सम्मतः, न शेषो नामेन्द्रादि । अथवा 'इन्द्रस्य इन्द्रसब्दस्य’ ‘अधिकारम्' अर्थं जानन् 'तदुपयुक्तः' तस्मिन् इन्द्रशब्दार्थे उपयुक्तो भावेन्द्रः, “उपयोगो भावनिक्षेपः” इति वचनात् । अत्र पर आह
[भा. १६] न हि जो घडं वियाणइ, सो उ घडीभवइ ने य वा अग्गी । नातिय भावोति य, एगट्ठमतो अदोसो त्ति ।
"
वृ- न हि यो घटं विजानाति स घटीभवति, यस्य वा अग्निविज्ञानं सोऽग्नि, प्रत्यक्षविरोधात् ततो यदुक्तं "इंदस्स वाऽहिगारं विजाणमाणो तदुवउत्तो" इति तन्मिथ्या । अत्र सूरिराह-ज्ञानमिति भाव इति वा, चशब्दादध्यवसाय इति वा उपयोग इति वा एकार्थम् अतोऽदोषः । इयमत्र भावना-अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः, तथाहि घटोऽपि वाह्यो घट इत्युच्यते, घटशब्दोऽपि घट इति, घटज्ञानमपि घट इति; ज्ञानं च ज्ञानिनोऽपृथग्भूतम्, अतो घटज्ञान्यपि घट इत्युच्यते; अग्निज्ञान्यपि अग्निरित्यदोषः । एतदेव भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org