________________
बृहत्कल्प-छेदसूत्रम् -१
वृ- यत्र वयममुमागच्छन्तं पश्यामो यत्र चाऽस्माकं ज्ञातिवर्गो निरन्तरम् 'आचरति' विचारार्थमागच्छति तत्रास्माकं परिभवं कामयमानो दत्तसङ्केतो वा समागच्छति ॥ किञ्च[भा. ४३५] कलुस दवे असतीय व, पुरिसालोए हवंति दोसाओ ।
११०
पंडित्थी विय तहा, खद्धे वेउव्विए मुच्छा ॥
कृ- 'द्रवे' पानीये कलुषे 'असति' अविद्यमाने वा पुरुषालोके 'दोषाः ' प्रागुक्ता अवर्णादयो भवन्ति । तथा पण्डः - नपुंसकः, पण्डेषु स्त्रीषु च संलोकमानेषु खद्धे वैकुर्विके वा सागारिके दृष्टे मूर्च्छा भवेत् । इयमत्र भावना - नपुंसकः स्त्री वा सागारिकं स्वभावत एवातिस्थूलं लम्बं च यदि वा कषायितम् अथवा वातदोषेण वैकुर्विकं दृष्ट्वा तद्विषयाभिलाषमूर्च्छामापन्ना तं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः ॥
गतं चतुर्थं स्थण्डिलम्, इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषानाह[भा. ४३६] आयसमुत्था तिरिए, पुरिसे दव कलुस असति उड्डाहो । आयोभय इत्थीसुं, अतिंति निंते य आसंका ॥
वृ-तिर्यगापाते आत्मसमुत्था दोषाः, तद्यथा- स्त्रीणां नपुंसकानां चापाते मैथुनाशङ्कादयो दोषाः । प्तानां तिर्यक्पुरुषाणामापाते आत्मन उपघातः । तथा 'पुरुषे' मनुष्यपुरुषापाते द्रवे कलुषे असति वा प्रवचनस्योड्डाहः । तथा स्त्रीषु चशब्दान्नपुंसकेष्वागच्छत्सु गच्छत्सु च ‘आत्मोभयविषया' आत्मोभयग्रहणं परस्योपलक्षणं आत्म-परोभयविषया आशङ्का । साच प्रागेव भाविता ।
[भा. ४३७] आवायदोस तइए, बिइए संलोयतो भवे दोसा । ते दो विनत्थि पढमे, तहि गमणं तत्थिमा मेरा ॥
वृ- तृतीये स्थण्डिले आपातदोषः, द्वितीये च संलोकतो दोषा भवन्ति ते वेदितव्याः । तेच 'द्वयेऽपि' आपातदोषाः संलोकदोषाश्च प्रथमे स्थण्डिले न सन्ति ततस्तत्र गमनं विधेयम् । तत्रेयं मर्यादा ॥ तामेवाह
[भा. ४३८] कालमकाले सन्ना, कालो तइयाए सेसगमकालो । पढमा पोरिसि आपुच्छ पानगमपुप्फिअन्नदिसिं ।।
वृ- द्विविधा संज्ञा, तद्यथा - कालेऽकाले च । तत्र काले तृतीयस्यां पौरुष्याम्, 'शेषकं' सर्वमपि प्रातः प्रभृतिकमकालः । तत्र तावदकालसंज्ञायां विधिरुच्यते 'कथं गन्तव्यम् ? ' -तत्र यदि प्रथमायां पौरुष्यां भवेत् तदा पात्रमुद्राह्य पानकनिमित्तं व्रजति; अथ नोद्राहयति पात्रं ततो लोक जानीयात्, यथा- एष बहिर्गमनिमित्तं पानीयं गृह्णाति, ततश्चतुर्थरसिकं न दद्यात् । अपि चोद्राहिते पात्रेऽयमधिको गुणः कोऽपि श्राद्ध ग्रामान्तरं नगरान्तरं वा गन्तुकामः प्रधावितः श्रद्धायामुत्पन्नायां तं प्रतिलाभयेत्, सोऽपि लाभो भवति शङ्काऽपि च नोपजायते, यथा- एष बहिर्गमनाय पानकनिमित्तं हिण्डते । स पुनः कीदृशं पानीयं गृह्णीयाद् ? अत आह- 'अपुष्पितं’ अच्छं सुगन्धं चतुर्थरसिकम्, न भवति ताद्दशं त उष्णोदकादि गृह्णीयात् । “अन्नदिसिमिति यस्यां दिशि संज्ञाभूमि तस्यां पानकस्य न गन्तव्यम्, यदि पुनस्तस्यां गच्छति ततोऽतिरिक्तं ग्रहीतव्यम् । यदि द्वौ जनौ तदा तथा गृह्णाति यथा तृतीयस्याप्युद्धरति, किं बहुना ? यावन्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org