________________
निरयावलिका-उपाङ्गसूत्रम् - १/१
“लाउल्लोइयमहिए” लाइयं-य भूमेश्छगणादिना उपलेपनम्, उल्लोइयं कुडयमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकचैत्ये अशोक - वरपादपः समस्ति, "तस्स णं हेट्ठा खंधासन्ने, एत्थ णं महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खंभाया-मसुप्पमाणे आईणगरूयबूरनवणीयतूलफासे" आजिनकं - चर्ममयं वस्त्रं, खतं प्रतीतं, बूरो- वनस्पतिविशेषः, नवनीतं प्रक्षणं, तूलम् - अर्कतूलं, तद्वत् स्पर्शो यस्य स तथा, कोऽर्थः ? कोमल स्पर्शयुक्तः । 'पासाईए जाव पडिरूवे' त्ति ।
मू. (२) ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नामं अनगारे जातिसंपन्ने जहा केसि जाव पंचहिं अनगारसएहिंसद्धिं संपरिवुडे पुव्वाणुपुव्विंचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं जाव विहरति । परिसा निग्गया धम्मो कहिओ। परिसा पडिगया ।
वृ. ते णं काले णं' इत्यादि, ‘'जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चिदुक्तो भवेत्, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं “कुलसंपन्ने,” नवरं कुलं - पैतृकः पक्षः । ‘“बलसंपन्ने’” बलं–संहननविशेषसमुत्थः प्राणः । 'जहा केसि' त्ति केसि (शि) वर्णको वाच्यः, स च “विनयसंपन्ने” लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा "ओयंसी” ओजो - मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः - शरीरप्रभा तद्वान् तेजस्वी, वचो - वचनं सौभाग्याद्युपेतं यस्यास्तीति वचस्वी, “जसंसी" यशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृत्वात् ।
"जियकोहमानमायालोभे" नवरं क्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्य आशा - वाञ्छा मरणाच्च यद्भय ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । 'तवप्पहाणे' तपसा प्रधानःउत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः- संयमगुणाः । 'करणचरणप्पहाणे' चारित्रप्रधानः । ' निग्गहप्पहाणे' निग्रहो - अनाचार - प्रवृत्तेर्निषेधनम् ।
'घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्यं च अल्पसत्त्वैर्दुःखेन यदनुचर्यंते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छूढसरीरे' 'उच्छूढं' ति उज्झितमिव उज्झितं शरीरं तत्सत्कारं प्रति निःस्पृहत्वात् (येन ) स तथा । 'चोद्दसपुव्वी चउनाणोवगए' चतुर्ज्ञानोपयोगतः केवलवर्जज्ञानयुक्तः । केसि (शि) गणधरो मतिश्रुतावधिज्ञानत्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्धं-सह संपरिवृतः समन्तात्परिकलितः पूर्वानुपूव्या न पश्चानुपूव्या चेकत्यर्थः क्रमेणेति हृदयं, चरन् -संचरन् । एतदेवाह
'गामाणुगामं दुइजमाणे” त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन्– एकस्माद् ग्रामादनन्तरग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धं विहारमाह । तत्राप्यौत्सुक्याभावमाह - 'सुहंसुहेणं विहरमाणे' सुखंसुखेन - शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव' त्ति यस्मिन्नेव देशे राजगृहं नगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं - यथोचितं मुनिजनस्य अवग्रहम्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International