________________
मू०३८
७१
-
मू. (३९) कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिका ।
पावरयसुरयरिक्का साहू गुणरयणचचिक्का । वृ. काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'चुक्क'त्ति प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापंतेन मुक्ताः पवित्रचारित्रनीरेणतं प्रक्षालितवन्त इत्यर्थः, तथा विविक्क'त्ति विविक्तं-अदत्तादानियमेन आत्मनः पृथक्कतंचौरिक्यंचौर्यं यैस्ते तथा स्वामिजीवतीर्थकृद्गुनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापितंपरिहृतवन्त इत्यर्थः ।
तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं-मैथुनंचपापरजःसुरतंतेन रिक्थाः-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ? -गुणा-व्रतषट्कादयः त एव रत्नानि तैः चच्चिक्कत्तिदीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु परस्तावादेव लभ्यते॥ मू. (४०) साहुत्ति सुविआ जंआयरिआई तओ अते साहू ।
साहुगहणेण गाहिआ तम्हा ते साहुणो सरणं । वृ. नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पञ्चापि साधव उच्यन्ते, तत्कार्यकरणात्, तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकार मम शरणं भवेयुरिति॥
उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहमू. (४१) पडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिनधम्मं ।
पहरिसरोमंचपवंचकंचुअंचियतणू भणति ।। वृ. साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्मं शरणं कर्तुंप्रतिपत्तुमिच्छन्नित्यध्याहार्य, इदंवक्ष्यमाणं भणति, किंविशिष्टोऽसौ?-प्रकृष्टो हर्षप्रहर्ष-वदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चकस्तेनाञ्चिताविभूषिता तनुः-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः, यद्भणति तदाहमू. (४२) पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं ।
तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ॥ - वृ. प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं-लब्धं सम्यक्त्वदेशविरतिरूपं धर्ममिति संबन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात्, तथा पात्रैरपि-भाग्यवद्भिरपिब्रह्मदत्तचक्रयादिभिरिव कैश्चित् नवरीति-पुनरर्थेन प्राप्तं-नासादितं, पात्रत्वंचब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवत्यादिपदानिहिभव्यानामेव भवन्तीति, तमेवंभूतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org