________________
२५०
गच्छाचार-प्रकिर्णकसूत्रम् ११८ वृ.जो जत्तो०॥यो यावानिति 'जातः' उत्पन्नस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं वा, अपिशब्दाचातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो ‘महत्तरिकायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति॥ मू. (११९) विटालियाणि पउंजंति गिलाण सेहीण नेय तेप्पंति।
अनगाढे आगाढं करंति आगाढि अनगाढं। वृ. 'विण्टलिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुअन्ति प्ररूपयन्तीत्यर्थः ग्लानिकानां रोगिणीनां ‘सेहीणत्तिनवदीक्षितसाध्वीनां 'नेयतप्पंति'त्ति औषधभेषवजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्तीत्यर्थः।
तथा आगाढम्-अवश्यकर्त्तव्यंसर्पभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढं तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कार्ये अनागाढं कार्यं कुर्वन्ति, गो०, यद्वा 'अनगाढे'त्ति आचाराङ्गा-दिअनागाढयोगानुष्ठाने 'आगाढं'ति भगवतीप्रमुमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगा-नुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ तथामू. (१२०) अजयणाए पकुवंति, पाहुणगाण अवच्छला।
चित्तलिआणि असेवंति, चित्ता रयहरणे तहा॥ वृ.अजय० ॥'अयतनया' जीवयतनां विनेत्यर्थः ‘पकुव्वंति'त्ति प्रकर्षेण-मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रमणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना-आचरणेनाथ षट्कायपरिपालना यत्र सा अयतनाकेवलद्रव्यलिङ्गधारणा तयाप्रकुर्वन्तिजठरपूरणार्थं रामाद्यावर्जनादिकमिति, तथा प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल त्ति निर्दोषभव्यानपानादिना बहुमानपूर्वकं भक्ति न कुर्वन्तीत्यर्थः ।
तथा 'चित्तलिआणि त्ति चित्रितानि-नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चउकचीतलिकापाचीकासारपासकादीनि सेवन्ते स्वयंप्रवर्ततयन्तीत्यर्थः, चशब्दाद्धस्ते मिन्थ्यिका चरणेऽलक्तकुडमादि कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे 'चित्ता इति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति हे गौतम ता अनार्या उच्यन्त इति॥ मू. (१२१) गइविब्भमाइएहिं आगारविगार तह पगासंति।
जह वुड्डाणवि मोहो समुईरइ किंतु तरुणाणं॥ वृ. गइ०॥याऽऽर्या गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च-स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा विकारश्च-स्तनकक्षादिप्रदेशे हस्ताङ्गुल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति' तथा प्रकटीकुर्वन्ति यथा 'वृद्धानामपि' स्थविराणामपि 'मोहः' वेदोदयः कामानुरागइत्यर्थः 'समुदीरइत्ति तत्क्षणएवोत्पद्यते, "तुः पुनरर्थे, किं पुनस्तरुणानांसाधूनामिति, हे सौम्य ! ताः साध्यो न, किन्तु नट्य इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org