________________
मू० ३२
संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं
119 11
“सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ॥ वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेव । अत्तट्ठा नवि दिक्खइ देइ सुसाहूण बोहेउं ।। इत्यादि ।
तथा ‘इतरः पुनः’ उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'चुक्क' त्ति भ्रष्टो यः स साधुर्न भवति उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च गृहस्थोऽपि न भवति गृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति ।।
यद्येवं ततः किं कर्त्तव्यम् ? इत्याह
॥२॥
पू. (३३)
जइवि न सक्कं काउं सम्मं जिनभासिअं अनुट्ठाणं । तो सम्म भासिज्जा जह भणियं खीणरागेहिं ।।
वृ. जइ० ॥ यद्यपि शक्यं न भवति तेन 'सक्कइ'त्ति पाठे तु न शक्यते 'कर्त्तु' विधातुं, कथं 'सम्यक्' त्रिकरणशुद्धया 'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्म क्रियाकलापरूपं ततः 'सम्यक्' आत्मसामर्थ्येण भाषेत यादृशं स्यात्ताध्शं यथा 'क्षीणरागैः' जिनैः 'भणितं' कथितं तथा निरूपयेदिति ।। अथ प्रमादिनामपि शुद्धप्ररूपणया को गुणः ? इत्याहउस्सन्नोऽवि विहारे कम्मं सोहेइ सुलभबोही य ।
मू. (३४)
२२१
चरणकरणं विसुद्धं उववूहिंतो परूविंतो ॥
बृ. उस्स० ॥ 'उवसन्नोऽपि ' शिथिलोऽपि, क्व ? - 'विहारे' मुनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा - सुखेन लभ्येत्यर्थः बोधिःजन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ? - चरणकरणं 'विशुद्धं' निर्दोषं 'उपबृंहयन्' निर्मायभवेन प्रशंसां कुर्वन् 'प्ररूपयन् ' च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति । तत्र
-
॥ १ ॥ " वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहाइ ४ य चरणमेयं ॥"
तथा - " पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ अभिग्गहा ४ चेव करणं तु ॥ इति ॥ अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् इत्याह
मू. (३५)
संमग्गमग्गसंपट्ठिआण साहूण कुणइ वच्छल्लं ।
ओसहभेसज्जेहि य सयमन्त्रेणं तु कारेइ ॥
बृ. संमग्ग० ।। 'सन्मार्गमार्गसंप्रस्थितानां' प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां' जगदुत्तममुनीनां 'करोति' निर्जरार्थं विधत्ते 'वात्सल्यं' अन्तरङ्गभावेनोपकारकरणं, कैः ? - 'औषधभेषजैः ' तत्रौषधम् - अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, यद्वा औषधं - हरीतक्यादि भेषजं पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन कारयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org