________________
१८६
तन्दुलवैचारिक प्रकिर्णकसूत्रम् १४३
पक्षपाते पुरुषस्य परस्परं मैत्र्यादिविनाशहेतुत्वात्, यद्वा अन्तः - मध्ये 'रंग० 'ति पुरुषाणां ब्रह्मव्रतचारित्रादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् ८० ।
अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः ८१ 'अदारुय'त्ति अदारुका-काष्ठादिरहिता अटवी - कान्तारं, यथा अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापि न ज्वलति तथेमाः पापं कृत्वा न ज्वलन्ति, न पश्चात्तापं कुर्वन्तीत्यर्थः -, वृषभकलङ्कदात्री - श्रावकभार्यावत् ८२ ‘अणाल०' न आलस्यं - अनुत्साहोऽनालस्यं तस्य निलयः, आकार्यादौ सादरं प्रवृत्तिहेतुत्वात् ८३ 'अइक्ख०' ईक्ष दर्शनाङ्कनयो 'रितिवचनात् अनीक्ष्यवैतरणीअध्श्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्गे तदवाप्तिहेतुत्वात्, अतीक्ष्णवैतरणी वा ८४ 'अणा०' अनामिको - नामरहितो व्याधि-असाध्यरोगः इह परत्र च त्कारणत्वात् ८५ ।
'अविओ०' न विद्यते वियोगः - पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः - परिदेवनं ८६ 'अरु०' अरुक् - रोगरहितः उपसर्ग, यद्वाऽर्षत्वाद् वकारलोपे अरूपीरूपरहितः उपसर्गः–उपपातः ८७ 'रइ' रति- कामप्रिया विद्यते अस्येति रतिमान् कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात्, यद्वा रतिमान् -सुखदायी मनोभ्रमो - मनोविकारः ८८ 'सव्वंग० ' सवाङ्गः - सर्वशरीरव्यापी दाहः ८९ ।
'अणमया वज्रासणी 'ति अनभ्रका - अभ्रकरहिता वज्राशनि - विद्युत्, यद्वा इयं-स्त्री 'असणी' त्ति अशनि - विद्युत्, किंभूता ? - अनभ्रकाः आकाशरहिता मेघरहिता वा, पुनः किंभूता वज्रा - वज्रतुल्येत्यर्थः, दारुणविपाकहेतुत्वात्, 'अपसूया वज्जासणी' ति पाठे अप्रसूता - अपत्यजन्मरहिता वज्रेतिवर्या-सुन्दराकारा एवंविधारामा असणीति - अशनि - विद्युत्, बालानां नरकादी दारुणदहन हेतुत्वात् 'अप्पसूया वज्जासुणी' त्ति पाठे तु अप्रसूता - नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी 'ति हडुक्किलाशुनीवत्मण्डलीवत् 'वज्रे' ति वर्ज्या सर्वथा साधुभिर्मोक्षकाङिभि ब्रह्मचारिभिश्च - चतुर्थव्रतरक्षाकाङ्क्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ९० ।
'असलि०' अजलप्रवाहः 'असलिलप्पलावो' त्ति पाठान्तरं अजलप्लावः - जलं विना रेल्लिरित्यर्थः ९१ ‘समुद्दरउ’त्ति समुद्रवेगः केनापि धर्त्तुमशक्यत्वात् 'समद्धरउ' त्ति पाठे तु सम्यक् अर्धं यस्मात् स समर्धः, एवंविधः 'रउ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सतिगृहाद्यर्धकरणहेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठपुत्राविव ९२ ।
मू. (१४३) अवि याइं तासिं इत्थियाणं अनेगाणि नामनिरुत्ताणि पुरिसे कामरागपडिबद्धे नानाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थित्ति नारीओ, तंजहा - नारीसमा न नराणं अरीओ नारीओ, नानाविहेहिं कम्मेहिं सिप्पियाईहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाईहिं रमंतित्ति रामाओ, पुरिसे अंगानुराए करंतित्ति अंगनाओ ।
नानाविहेसु जुद्धभंडणसंगामाडवीसु मुहाणगिण्हणसीउण्हदुक्खकिलेसमाईसु पुरिसे कालंतित्ति ललनाओ, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ, पुरिसे नानाविहेहिं भावेहिं वण्णंतित्ति वणियाओ, काई पमत्तभावं काई पणयं सविब्भमं काई ससद्दं सासिव्व ववहरंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org