________________
मू० १४३
- दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् १५ ।
- 'माई ० ' मातृकायाः समूहः कमल श्रेष्ठिसुतापदमिनीवत् १६ 'ख०' स्खलना-खण्डना ज्ञानस्य - श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादर्हन्नकक्षुल्लकवत् १७ 'चल०' चलनं शीलस्य -ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीतिभावः १८ 'विग्घो० 'त्ति विघ्नः - अन्तरायः धर्मस्य - श्रुतचारित्रादेः १९ 'अरि०' अरि-निर्दयो रिपुः, केषां ? - साधूनां मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् २० ।
१८३
'दूष०' दूषणं - कलङ्कः, केषां ? - ' आया ०' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामःकृत्रिमवनं, कस्य ? - कर्मरजसः - कर्मपरागस्य, यद्वाकर्म च - निबिडमोहनीयादि रश्च - कामः चच-चौर: कर्मरचं तस्यारामो- वाटिका २२ 'फलिहो' त्ति अर्गला यद्वा झंपक: मोक्षमार्गस्य -शिवपथस्य २३ भवनं-गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् २४ 'अवि याओ इमाओ' त्ति अपि च इमा–वक्ष्यमाणाः स्त्रयः एवंविधाः भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत्-इंष्ट्राविषभुजङ्गमवत् कुपिताः - कोपं गताः भवन्ति २५ ।
मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् २६ 'वग्घी०' व्याघ्रीवत् दुष्टहदयाः - दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण०' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशह्रदयाः, शतक श्रावकभायरिवतीवत् २८ 'माया' मायाकारक इव- परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्रयः, तत्रोपचारशतानि - औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउ' त्तिकर्त्रयः २८ 'आयरि०' अथापि विवशब्द इवार्थे, आचार्यसविधमिव - अनुयोगकुसमीपमिव बहुभि - अनेकप्रकारैरनेकपुरुषैर्वा ग्राह्यः - ग्रहीतुं शक्यः यद्वाऽऽर्षत्वात् 'अगिज्झु' ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भावः - आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा २९ 'फुं फुं०' फुंफुकः - करीषाग्नि कोउ इतिजनोक्तिस्तद्वत् अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात् उक्तञ्च
119 11
T
“पुत्रश्च मूर्खो विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥”
३० ' नग्ग०' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थआपितान्तःकरणा इत्यर्थः, अनङ्गसेनसुवर्णकारजीवस्त्रीवत्, यद्वा नग्नकमार्गवत् - जिनकल्पिपन्थ वत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्-भूतावेष्टिताचारवत् नैकत्रचित्ताः ३१ 'अंतोदु०' अन्तर्दुष्टव्रणवत् कुथितहृदयाः, तिलभटोन्मत्त रामावत् ३२ 'किण्ह०' कृष्णसर्पवत् 'अवि०' विश्वासं कर्त्तुमयोग्या इत्यर्थः ३३ 'संघा० ' संहारवत्-बहुजन्तुक्षयवत् 'छन्नमाया०' प्रच्छन्नमातृकाः ३४ 'संझ०' सन्ध्याभ्ररागवत् मुहूर्तरागाः तथाविधदुष्टवेश्यावत् ३५ ।
'समुद्द०' समुद्रवीचिवत् - सागरतरङ्गवत् चलस्वभावाः - चञ्चलस्वाभिप्रायाः ३६ 'मच्छो० ' मत्स्यवत् दुष्परिवर्त्तनशीलाः महता कष्टेन परिवर्त्तनं- पश्चाद् वालयितुं शीलं स्वभावो यासां तास्तथा ३७ 'वान०' वानरवत् चलचित्ताः - चञ्चलाभि प्रायाः ३८ 'मच्छुवि०' मृत्युवत्-मरणवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
4