SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १०२ शिराशतानि-स्नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाडयः ‘नव०' नवनवति रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषांनवनवतिर्लक्षा इति, विना केशश्मश्रुभि, केशश्मश्रुभिः सह पुनः सार्धास्तिन रोमकूपकोटयो भवन्ति मनुष्यशरीरे इति ॥ अथपूर्वोक्तानिशिरासप्तशतानि कथं भवन्तीति सूत्रकारएवाह-'आउसो०' हे आयुष्मन् अस्मिन् शरीरे ‘सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, ‘जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां ‘से' तस्य जीवस्य निरुपघातेनअनुग्रहेण चक्षु १श्रोत्ररध्राणइजिह्वाबलंभवति, यासां से' तस्योपघातेन-विघातेन चक्षुश्रोत्रघ्राणजिह्वाबलमुपहन्यते। तथा 'आउसो' हे आयुष्मन्! अस्मिन् शरीरे षष्ट्यधिकंशतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः, अधोगामिनीनांपादतले उपगतानां प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति, तासांचैव से तस्य जीवस्योपघातेन-विकारप्राप्तेन शीर्षवेदना-सर्वमस्तकपीडा अर्घशीर्षवेदना मस्तकशूलं च भवति, अच्छिणित्ति अक्षिणी-लोचने अंधिजंति'त्ति अन्धीभवत इत्यर्थः ॥ __तथा 'आउसो०' हे आयुष्मन् ! अस्मिन्प्रत्यक्षेशरीरेषष्ट्यधिकंशतंशिराणांनाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव ‘से' तस्योपघातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति, तथा ‘आउ०' हे आयुष्मन् ! अस्य जन्तोः षष्ट्यधिकंशतं शिराणां नाभिप्रभवणामधोगामिनीनां गुदप्रविष्टानांभवति, यासां निरुघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्म-प्रनवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते, मूत्रादिकं सुखेन कर्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाऑसिगुदाकुराः 'हरस' इति लोकोक्ति क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति । __तथा आउसो०' हे आयुष्मन्! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणी'त्तिश्लेष्मधारिण्यो भवन्ति, ‘पंच०' पञ्चविंशतिशिराः पित्तधारिण्यः, दशशिराः शुक्रधारिण्यः, ‘सत्तसि०' पुरुषस्योक्तप्रकारेण सप्तशिराशतानि भवन्ति, कथम्? शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तिर्यग्गामिन्यः १६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५शुक्रधारिण्यः १०एवं सर्वा७००शिराः भवन्तिपुरुषाणां शरीर इति। 'तीसू०' पुरुषोक्ताः यास्तास्त्रशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानिषट्शतानिभवन्तीत्यर्थ ६७०, वीसू०' पुरुषोक्ता यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट्शतानि भवन्तीत्यर्थ ६८०॥ अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन्! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्से ति मस्तकभेजकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानंबालकुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy