________________
१५६
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ६४ अदभुतभूतानि श्मश्रूणि कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु - चिबुकं येषा ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवालं विद्रुमं बिम्बफलं - गोल्हाफलं तत्सन्निभः- सद्दशो रक्तत्वेन अधरोष्ठः - अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलंचन्द्रखण्डं तद्वत् विमलः- आगन्तुकमलरहितः निर्मलः - स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद' त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत् - पद्मिनीमूलवत् धवला दन्त श्रेणि- दशनपङ्क्तिर्येषां ते तथा ।
अखण्डदन्ताः - परिपूर्णदशनाः अस्फुटितदन्ताः- राजिरहितदन्ताः अविरलदन्ताः सुस्निग्धदन्ताः - अरूक्षदन्ताः सुजातदन्ताः - सुनिष्पन्नदन्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता साश्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तत्वादेकदन्तश्रेणिस्तेषामिति भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकार दन्त श्रेणिर्येषां ते एकदन्तश्रेणयः ते इव परस्परं अनुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता, एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपङ्क्त्यः इव लक्ष्यंते इति भावः, हुतवहेन - अग्निना निर्मातं-निर्दग्धं धौतं-प्रक्षालितमलं तप्तं च-उष्णं यत् तपनीयं- सुवर्णविशेषः तद्वत् रक्ततलंलोहितरूपं तालु च - काकुदं जिह्वा च-रसना येषां ते तथा ।
'सर' त्ति अत्र योज्यं सारसवत् - पक्षिविशेषवत् मधुरः स्वरः - शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो येषां ते तथा, दुन्दुभिवत् - भेरीवत् स्वरो येषां ते तथा, तत्र स्वरः - शब्दः षड्जः १ ऋषभः २ गान्धार ३ मध्यम ४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव - सुष्णस्येव आयता - दीर्घा ऋज्वी- सरला तुङ्गा-उन्नता नासा - घोणा येषां ते तथा, अवदालितं- रविकिरणैः विकाशितं यत् पुण्डरीकं - सितपद्मं तद्वद् वदनं मुखं येषां ते तथा । 'कोकासिय'त्ति विकसिते प्रायः समुदितत्वात्तेषां धवले - सितेपुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी - लोचने येषां ते तथा, आनामितंईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे - शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा भ्रूराज सुसंस्थिते संगते आयते-- दीर्घे सुजाते- सुनिष्पन्ने भ्रूवौ येषां ते तथा ।
नौ नतु टप्परौ प्रमाणयुक्तौ - उपपन्नप्रमाणौ श्रवणौकर्णी येषां ते तथा अत एव सुश्रवणाः सुष्ठु श्रवणं-शब्दोपलंभो येषां ते तथा, पीनौ-मांसली कपोललक्षणी देशभागौ वदनस्यावयौ येषां ते तथा, अचिरोद्गतः समग्रः - समूप्रणः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितंसंस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं - भालं येषां ते अचिरोदगतसमग्र सुस्निग्धचन्द्रार्धसंस्थितललाटाः, उडुपतिरिव - चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठयं, घनो-लोहमुदगरस्तद्वन्निचितं-निबिडं यद्वा घनं - अतिशयेन निचितं सुबद्धं स्नायुभि लक्षणोन्नतं महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः -शिरोऽग्रं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्रशिरसः ।
हुतवहेन - अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं रक्तवर्णसुवर्णं तद्वत् 'केसंत' त्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International