________________
१५४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ६४ धायन्तीति भोगलक्षणधराः सुजातानि-सुनिष्पन्नानि सर्वाणिअङ्गानि-अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग-शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पलपउमकरचरणकोमलंगुलितल'त्ति रक्तोत्पलवत् करचरणानां कोमला अमुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि-अधोभागा येषां ते तथा, नगः-पर्वतः नगरं प्रतीतं मकरो-मत्स्यः सागरः-समुद्रः चक्रं प्रतीतंअङ्कधरः-चन्द्रः अङ्कः-तस्यैव लाञ्छनंमृगः एवंरूपैर्लक्षणैरङ्कितानितलानि-पादाधोभागाः येषां ते तथा।
सुप्रतिष्ठिताः-सप्रिष्ठानवन्तःकूर्मवत्-कच्छपवत्चारवःचरणा येषांतेतथा, आनुपूर्व्यापरिपाटया वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः-सुनिष्पन्नाः पीवराः अङ्गुलिकाःपादाग्रावयवाः येषां तेतथा, उन्नताः-तुङ्गाःतनवः-प्रतलाः ताम्रा–अरुणाः स्निग्धाः-कान्तिमन्तो नखा येषांते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-मांसलौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटको येषांते तथा, आनुपूव्येण-परिपाट्या वर्धमाना हीयमानावा इति गम्यते, एणीहरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ताच-सूत्रवलनकं एतानीव वृत्ते-वर्तुले आनुपूव्येण स्थूलस्थूलत्वेनेति गम्यं, जो-प्रसृते येषां ते तथा, समुद्गस्येव- समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढे-मांसलत्वादनुपलक्ष्ये जानुनी-अष्ठीवन्तौ येषां ते तथा।
गजो-हस्ती 'ससण'त्तिश्वसिति-प्राणितिअनेनेतिश्वसनः-शुण्डादण्डः गजस्यश्वसनः गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभे-सशेऊरू येषांतेतथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः-सदृशो विक्रमः-पराक्रमो विलासिता-सातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, आकीर्णहय इवजात्याश्व इव निरुपलेपाः-तथाविधमलविकलाः, प्रमुदितो-हृष्यो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण–अतिशयेन वर्तिता-वर्तुला कटिर्येषां ते तथा, 'साहय'त्ति संहृतं-संक्षिप्त यत् सोणंदं त्रिकाष्ठिकामध्यं मुशलं-प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद्वरकनकंतस्य यत् छरु'त्तिखड्गादिमुष्टिसच (ततः) एतदद्वन्द्वस्तैः सशो यः।
वरवज्रवद् वलितः क्षामो-वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्त्तक इव प्रदक्षिणावर्ती-दक्षिणावर्ततीतरङ्गैरिव तरङ्गैः-तिसृभिर्वलिभिभङ्गुरा तरङ्गभङ्गुरारविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं-विकासितं 'विकोसायंत त्ति विगतकोशं कृतं यत्पङ्कजंतद्वत् गम्भीरा विकटाच नाभिर्येषांतेतथा, 'उजुय०' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः ‘सहिय'त्ति संहितानाम्-अविरलानां सुजातानां जात्यानां-स्वाभाविकानां तनूनां-सूक्ष्माणां कृष्णानां-कालवर्णानां अथवा कृत्स्नानां-अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां-अत्यंतकोम-लानां रमणीयानां च रोम्णांतनुरुहाणां राजि-आवलिर्येषां ते तथा, झषविहगयोरिव- मत्स्यपक्षिणोरिव सुजातौ-सुभूतौ पीनौ-उपचितौ कुक्षी-जठरदेशौ येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते ता।
इदंचविशेषणं न पुनरुक्तंपूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपााः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org