________________
५२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८
तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन मूय उपदर्शयति- श्वेतं, श्वेतत्वमेवोपमया द्रढयति - विमलं निर्मलं यत् शङ्खतलं- शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-धनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च - रूप्यराशिस्तद्वत्प्रकाशः - प्रतिमता यस्य तत्तथा, तिलकरत्नानि - पुण्ड्रविशेषाः तैरर्द्धचन्द्रैश्च - अर्द्धचन्द्राकारैः सोपानविशेषश्चित्रं - चित्रकारि तिलकरत्नार्द्धचन्द्रचित्रं, तथा - नानामणिमयानि दामानि - मालास्तैरलङ्कृतं नानामणिदामालङ्कृतं, तथा अन्तर्बहिश्च लक्ष्णपुद्गलस्कन्ध-निर्मापितं - तपनीयमय्यो वालुकाः - सिकतास्तासां - प्रस्तारो यत्र तत्तपनीय - वालुकाप्रस्तटं, 'सुहफास' इत्यादि प्राग्वत् ।
"विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो चंदणकलसा पन्नत्ता, ते चंदनकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा महया महया महिंदकुंभसमाणा पन्नत्ता समणाउसो !” अत्र व्याख्या - विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन दुहओ' त्ति प्राकृतत्वात् हस्वत्वे द्विघातो-द्विप्रकारायां नैषेधिक्यां, नैषेधिकी चात्र निषदनस्थानं, तत्र प्रत्येकं द्वौ द्वौ वन्दनाय कलशौ वन्दनकलशौ-माल्यघटौ प्रज्ञप्तौ, ते च वन्दनकलशा वरकमलं प्रतिष्ठानं - आधारो येषां ते तथा, सुरभिवरवारिपरिपूर्णा, चन्दनकृतचर्चाकाः -- चन्दनकृतोपरागाः, आविद्धः - आरोपिताः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते तथा, कण्ठेकालवत् सप्तम्या अलुपू, तथा पद्ममुत्पलं च यथायोगं पिधानं येषां ते तथा, 'सव्वरयणामया' इत्यादि प्राग्वत्, अतिशयेन महान्तो 'महेन्द्रकुम्भसमानाः कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासाविन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना -महाकलशप्रमाणाः यद्वा महीन्द्रो - राजा तदर्थं तस्य सम्बन्धिनो वा कुम्भा - अभिषेककलशाः तत्समानाः प्रज्ञप्ताः ।
हे श्रमण ! हे आयुष्मन् !, 'विजयस्स णं दारस्स उभओपासिं दुहओ निसीहियाए दो दो नागदंतगा पन्नत्ता, ते णं नागदंतगा मुत्ताजनंतरूसिअहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अब्भुग्गया अभिनिसिट्ठा तिरिअं सुसंपग्गहिया अहेपन्नगद्धरूवा पन्नगद्धसंठाणसंठिया सव्वइरामया अच्छा जाव पडिरूवा महया २ गयदंतसमाणा पन्नत्ता समणाउसो !' विजयस्य द्वारस्येत्यादिपदयोजना प्राग्वत्, द्वी द्वी नागदन्तकौ - नर्कुटिको अङ्कटिकावित्यर्थ प्रज्ञप्तौ, तेच नागदन्तका मुक्ताजालानामन्तरेषु यानि उच्छ्रितानि - लम्बमानानि हेमजालानि - हेममया दामसमूहा यानि च गवाक्षालानि - गवाक्षाकृतिरतन्विशेषाः दामसमूहा यानि च किंकिणीघण्टाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः - सर्वतो व्याप्ताः, अभिमुखमुद्गता अभ्युद्गता - अग्रिमभागे मनागुन्नता इति भावः, येन तेषु माल्यदामानि सुस्थितानि भवन्ति, अभिमुखं - बहिर्बागाभिमुखं निसृष्टा-निर्गताः अभिनिसृष्टाः तिर्यग्-भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यग् - मनागप्यचलनेन परिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः - अधस्तनंयत् पन्नगस्य - सर्पस्यार्द्ध तस्येव रूपं - आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - 'पन्नगार्द्धसंस्थानसंस्थिताः अधः पन्नगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत्, 'महया महया' इति अतिशयेन महान्तो गजदन्तसमानाः - गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! । “तेसु णं नागदंत एसु बहवे किण्हसुत्तवद्धवग्घारिअमल्लदामकलावा एवं नील० लोहिअए०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org