________________
६७
वक्षस्कारः-७
४९९ सप्तषष्टिधा छिन्नस्य षट्षष्टिभागान् यावदस्य चन्द्रयोग उक्तस्तत्तु पूर्णिमाऽमावास्यापरिसमाप्तिकालभाविनक्षत्रपरिज्ञानोपाये उक्तात् षट्षष्टिर्मुहूर्ताः पञ्च च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छिन्नस्यैकः सप्तषष्टिभाग इत्येवंरूपाद् ध्रुवराशेर्नक्षत्रशोधनाधिकारे सप्तविंशति सप्तषष्टिभागाःदुःशोधा इति सप्तविंशतिसप्तषष्टिभागाः सवर्णनार्थ द्वाषष्ट्या गुण्यन्ते जातं १६७४ एषां सप्तषष्ट्या भागे हृते आगतं .. ६/..। ___“एव मिति यथाऽभिजित एकविंशतिभागेभ्यः समधिकनवमुहूर्तरूपो योगकाल आनीतस्तथाप्रकारेणेत्यर्थः, इमाभिर्वक्ष्यमाणाभिर्गाथाभिरवगन्तव्यं, चन्द्रयोगकालमानमिति गम्यं, तद्यथा-अभिजितश्चन्द्रयोगः सप्तषष्टिखण्डीकृतोऽहोरात्रः कल्प्यते, ते पूर्वोक्ता एकविंशतिभागाः पूर्वोक्तेन करणेन नव मुहूर्ताः सप्तविंशतिश्च कला भवन्ति तथा शतभिषक् भरणी आर्द्राआश्लेषा स्वातिःज्येष्ठाचः समुच्चये एतानि षट् नक्षत्राणिपञ्चदश मुहूर्तान् यावत् चन्द्रेण सह संयोगः-सम्बन्धो येषां तानि तथा, तद्यथा-एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्धान्त्रयस्त्रिंशद्भागान्यावच्चन्द्रेण सह योगोभवति ततो मुहूर्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि-नवत्यधिकानि यदपि चाद्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्तेपूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशि सहस्रं पञ्चोत्तरं, अस्य सप्तषष्ट्या भागे हृते लब्धा पञ्चदश मुहूर्ता इति । मू. (३२१) सयमिसया भरणीओ अद्दा अस्सेस साइ जेहाय।
एते छन्नक्खत्ता पन्नरसमुहत्तसंजोगा। वृ. तिम्र उत्तराः-उत्तरफल्गुनी उत्तराषाढा उत्तरभद्रपदा इत्येवंरूपाः पुनर्वसू रोहिणी विशाखा, चः समुच्चये, एतानि एवकारस्य भिन्नक्रमत्वादेतान्येवेति योज्यं, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, षट् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि तथा, तद्यथा-अत्रापि षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्याद्धं चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्तगतभागकरणार्थं शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि पञ्चदशोत्तराणि एतेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्च चत्वारिंशन्मुहूर्ता इति। मू. (३२२) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय।
एएछन्नक्खतता पणयालमुहुत्तसंजोगा। - वृ. तथा अवशेषाणि-उक्तातिरिक्तानि नक्षत्राणि श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिकामृगशिरःपुष्योमघा पूर्वाफाल्गनी हस्तश्चित्राऽनुरामूलः पूर्वाषाढाइति पञ्चदशापि भवन्तित्रिंशन्मुहूर्तानीति-त्रिंशन्मुहूर्तान्यावच्चन्द्रेण सहयोगमश्नुवते, तद्यथा-एषांपञ्चदशानां नक्षत्राणां चन्द्रेण सह सम्पूर्णमहोरात्रं यावद्योगस्ततो मुहूर्तगतभागकरणार्थं सप्तषष्टि त्रिंशता गुण्यतेजाते द्वे सहस्रेदशोत्तरे एषांचसप्तषष्ट्या भागेहतेलब्धास्त्रशन्मुहूर्ताइति, चन्द्रे-चन्द्रविषये एषः-अनन्तरोक्तो योगो नक्षत्राणां ज्ञातव्य इति । एतानिचाभिजिद्वानि क्रमेणार्द्धनद्रव्यर्द्धक्षेत्रसमक्षेत्रसंज्ञकानि सिद्धान्ते रूढानि, एषां किल चिरन्तनज्योतिशास्त्रष्वेवं भूक्तिरासीत् नतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org