SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४७४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७६ शतैः षष्ट्यधिकैः भागे लब्धानि ५३१९ योजनानि शेषं १६३६५/.....भागाः, एतावती सर्वबाह्ये नक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां नक्षत्राणांमुहूर्तगि, उक्ता तावत्सर्वाभ्यन्तरसर्वबाह्यमण्ड- ; लवर्तिनांनक्षत्राणामुहूर्तगति, अथ नक्षत्रतारकाणामवस्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्सु मण्डलेषु मुहूर्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्डलपरिज्ञानं कर्तुं नक्षत्रमण्डलानांचन्द्रमण्डलेषुसमवतारप्रश्नमाह-एतानि भदन्त! अष्टौ नक्षत्रमण्डलानि कतिषु चन्द्रमण्डलेषुसमवतरन्तिअन्तर्भवन्ति, चन्द्रनक्षत्राणांसाधारणमण्डलानिकानीत्यर्थः, भगवानाहगौतमाष्टासुचन्द्रमण्डलेषु समवतरन्ति, तद्यथा-प्रथमे चन्द्रमण्डले प्रथमंनक्षत्रमण्डलं, चारक्षेत्रसञ्चारिणामनवस्थितचारिणांचसर्वेषांज्योतिष्काणां जंबूद्वीपेऽशीत्यधिकयोजनशतमवगायैव मण्डलप्रवर्तनात्, तृतीयेचन्द्रमण्डले द्वितीयं, एतेच द्वेजंबूद्वीपे, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं, तत्रैव भाविनि सप्तमे चतुर्थं अष्टमे पञ्चमं दशमे षष्ठं एकादशे सप्तमं पञ्चदशेऽष्टमं शेषाण तु द्वितीयादीनि सप्त चन्द्रमण्डलानि नक्षत्रैविरहितानि, तत्र प्रथमे चन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा-अभिजिच्छ्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिश्च, द्वितीये पुनर्वसु मघा च, तृतीये कृत्तिका, चतुर्थे रोहिणी चित्राच, पञ्चमे विशाखाषष्ठे अनराधा सप्तमे ज्येष्ठा अष्टमे मृगशिरः आर्द्रापुष्यः अश्लेषा मूलो हस्तश्च, पूर्वाषाढोत्तराषाढयोद्धे द्वे तारे अभ्यन्तरतो द्वे वे बाह्यत इति, एवं स्वस्वमण्डलावतारसत्कचन्द्रमण्डलपरिध्यनुसारेण प्रागुक्तरीत्याद्वितीयादीनामपि नक्षत्रमण्डलानां मुहूर्तगति परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्तगति, अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्तगतिं परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्तगति, अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्तगतिं प्रश्नयति। “एगमेगेण मित्यादि, एकैकेन भगवन् ! मुहूर्तेन चन्द्रः कियन्ति भागशतानि गच्छति?, गौतम! यद्यन्मण्डलमुपसंक्रम्य चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य सप्तदश शतान्यष्टषष्टिभागैरधिकानि गच्छति, मण्डलपरिक्षेपमेकेन लक्षणाष्टनवत्याचशतैः छित्वा-विभज्य, इयमत्र भावना-इह प्रथमतश्चन्द्रस्य मंडलकालो निरूपणीयस्तदनन्तरं तदनुसारेण मुहूर्तगतिपरिमाणंभावनीयं, तत्रमंडलकालनिरूपणार्थमिदंत्रैराशिकं-यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवतिभिरर्द्धमंडलैश्चन्द्रद्वयापेक्षयातुपूर्णमंडलैरष्टादशशतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमंडलाभ्यामेकेन मण्डलेनेति भावः। कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि तेषामादि- राशिना भागहरणं लब्धे द्वे रात्रिन्दिवेशेषं तिष्ठति चतुर्विंशत्यधिकंशतंतत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि तेषां सप्तदशभिशतैः अष्टषष्ट्यधिकैर्भागे हते लब्धो द्वौ मुहूतौ, ततः छेद्यच्छेदकराश्योरष्टकेनापवर्तनाजातः छेद्यो राशिस्त्रयोविंशतिछेदकराशिट्टै शतेएकविंशत्यधिकेआगतं मुहूर्तस्यैकविंशत्य-धिकशतद्वयभागास्त्रयोविंशति२, एतावताकालेन द्वेअर्द्धमंडले परिपूर्णेचरति, किमुक्तंभवति ? एतावताकालेनपरिपूर्णमेकंमंडलं चन्द्रश्चरति।तदेवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy