SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४३१ - (वक्षस्कारः-७) वृ. जंबूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम् मू. (२५०) जंबुद्दीवे णं भंते ! दीवे कइ चंदा पभासिंसु पभासंति पभासिस्संति कइ सूरिआ तवइंसु तवेति तविस्संति केवइया नक्खत्ता जोगं जोइंसु जोअंति जोइस्संति केवइआ महग्गहा चारं चरिंसु चरंति चरिस्संति केवइआओ तारागणकोडाकोडीओ सोभिंसु सोभंति सोभिस्संति?, गोअमा! दो चंदा पभासिंसु ३ दो सूरिआ तवइंसु ३छप्पन्नं नक्खत्ताजोगंजोइंसु ३ छावत्तरं महग्गहसयं चारं चरिंसु ३। वृ. 'जंबुद्दीवेण मित्यादि, जंबूद्वीपे भगवन्! द्वीपेकतिचन्द्राःप्रभासितवन्तः-प्रकाशनीयं वस्तु उदद्योतितवन्तः प्रभासयन्ति-उदद्योतयन्तिप्रभासयिष्यन्ति-उदद्योतयिष्यन्ति, उदद्योतनामकर्मोदयाचन्द्रमण्डलानां, अनुष्णप्रकाशो हि जने उयोत इति व्यवयिते तेन तथा प्रश्नः, अनादिनिधनेयंजगतस्थितिरितिजानतः शिष्यस्य कालत्रयनिशेन प्रश्नः, प्रष्टव्यं तुचन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति तापयिष्यन्ति, आतपनामकर्मोदाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके वयवह्रियते तेन यथा प्रश्नोक्ति तथा कियन्ति नक्षत्राणि योग-स्वयं नियतमण्डलचारित्वेऽप्यनियतानेकमण्डलचारिभिर्निज-मण्डलमागतैनहैः सहसम्बन्धं युक्तर्वन्ति-प्राप्तवन्तियुअन्ति-प्राप्नुवन्तियोक्ष्यन्तिप्राप्स्यन्ति, तथा कियन्तो महाग्रहाः-अङ्गारकादयश्चारं-मण्डलक्षेत्रपरिभ्रमिंचरितवन्तः-अनुभूतवन्तः चरन्ति-अनुभवन्ति चरिष्यन्ति-अनुभविष्यन्ति, यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि ज्योतिष्काणां गतिश्चार इत्यभिधीयते तथाप्यन्यव्यपदेशविशेषाभावेन वक्रातिचारादिभिर्गतिविशेषैर्गतिमत्वेनचैषांसामान्यगतिशब्देनप्रश्नः, तथा कियत्यस्तारगणकोटाकोटयः शोभितवन्तःशोभांधृतवन्त्यः शोभन्ते शोभिष्यन्ते। एषां च चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादौ भास्वरत्वमात्रेण शोभमानत्वादित्थं प्रश्नाभिलापः, अत्र सूत्रेऽनुक्तोऽपि वाशब्दो विकल्पद्योतनार्थं प्रतिप्रश्नं बोध्यः भगवानाहगौतम ! द्वौचन्द्रौप्रभासितवन्तौ प्रभासेतेप्रभासिष्येतेच, जंबूद्वीपे क्षेत्रेसूर्याक्रान्ताभ्यांदिग्भ्यामन्यत्र शेषयोर्दिशोश्चन्द्राभ्यांप्रकाश्यमानत्वात्, प्रश्नसूत्रेचप्रभासितवनत इत्यादौ यो बहुवचनेन निर्देशः सप्रश्नरीतिर्बहुवचनेनैव भवतीतिज्ञापनार्थः, एकाद्यन्यतरनिर्णयस्यतुसिद्धान्तोत्तरकाले सम्भवः, एवं सूर्यसूत्रेऽपि भावनीयं, तथा द्वौ सूर्यो तापितवन्तौ ३ जंबूद्वपक्षेत्रमिति शेषः, अस्मिन्नेव क्षेत्रे चन्द्राक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोः सूर्याभ्यां ताप्यमानत्वात्, तथा षट्पञ्चाशन्नक्षत्राणि एकैकस्य चन्द्रस्य प्रत्येकमष्टाविंशतिनक्षत्रपरिवारात् योगं युक्तवन्तीत्यादि प्राग्वत्, तथा षट्सप्ततं-षट्सप्तत्युत्तरं महाग्रहशतं एकैकस्य चन्द्रस्य प्रत्येकमष्टाशीतेर्ग्रहाणां परिवारभावात् चारं चरितवदित्यादि । तथा पद्येन तारामानमाह मू. (२५१) एगंच सयसहस्संतेत्तीसं खलु भवे सहस्साई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy