________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ६ / २४१
जंबूद्वीपुपरिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां तथा गव्यूतत्रयं अद्यविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एकं चार्द्धाङ्गुलं, यवादयस्तु श्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रविचारसूत्रवृत्यादौ न विवक्षिता अतोन तद्विवक्षा क्रियते, तत्र योजनराशौ पञ्चविंशतिसहस्रैर्गुणिते सप्तकोटिशतानि नवतिकोट्यः षटपञ्चाशल्लक्षाः पञ्चसप्तति सहस्राणि भवन्ति, तथा क्रोशत्रये पञ्चविंशतिसहस्रगुणिते जातं पञ्चसप्ततिसहस्राणि गव्यूतानां, एषां च योजनानयनार्थं चतुर्भिर्भागे हते लब्धान्यष्टादश सहस्राणि सप्त शतानि पञ्चाशदधिकानि योजनानां अस्मिंश्च सहस्रादिके पूर्वराशौ प्रक्षिप्ते जातानि ९३ सहस्राणि ७ शतानि ५० अधिकानि कोट्यादिका सङ्ख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंशं शनं फञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशल्लाक्षा धनुषां अष्टाभिश्च धनुःसहस्रर्योजनं भवति ततो योजनानयनार्थमष्टाभि सहस्रार्भागे लब्धानि चत्वारि योजनशतानि अस्मिंश्च पूर्वराशी प्रक्षिप्ते जातानि ९४ सहस्राणि शतं पञ्चाशदधिकं,
४२६
- अङ्गुलान्यपि त्रयोदश पञ्चविंशतिसहस्रैर्गुण्यन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अर्द्धाङ्गुलमपि पञ्चविंशतिसहस्रैरभ्यस्यते जातान्यर्द्धाङ्गुलानां पञ्चविंशतसहस्राणि तेषामर्द्धे लब्धान्यङ्गुलानां द्वादश सहस्राणि पञ्चशताधिकानि तेषु पूर्वोक्ताङ्गुलराशी प्रक्षिप्तेषु जातोऽङ्गुलराशिस्त्रणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चशताधिकानि एषां धनुरानयनाय षन्नवत्या भागे हृते लब्धानि धनुषां पञ्चत्रिंशच्छतानि पञ्चदशाधिकानि शेषं षष्टिरङ्गलानि, अस्य धनूराशेर्गव्यूतानयनाय सहस्रद्वयेन भागे हते लब्धमेकंगव्यूतं शेषं धनुषां पञ्चदश शतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं - योजनानां सप्त कोटिशतानि नवतिकोट्यधिकानि षट्पञ्चाशल्लक्षाश्चतुर्णवतिसहस्राणि शतमेकं पञ्चाशदधिकं तथ गव्यतमेकं धनुषां पञ्चदशशतानि पञ्चदशाधिकानि अङ्गुलानां षष्टिरिति । गतं योजनद्वारं, अथ वर्षाणि - 'जंबुद्दीवे ण' मित्यादि व्यक्तं । अथ पर्वतद्वारं- 'जंबुद्दीवे णं०' प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे सङ्ख्यामीलनाय किञ्चिदुच्यते - षट् वर्षधराः क्षुल्लहिमवदादयः एको मंदरो- मेरु एकश्चित्रकूटः एकश्च विचित्रकूटः, एतौ च यमलजातकाविव द्वौ गिरी देवकुरुवर्त्तिनौ, द्वौ यमकपर्वतौ तथैवोत्तरकुरुवर्त्तिनौ, द्वे काञ्चनकपर्वतशते देवकुरूत्तरकुरुवर्त्तिह्रददशकोभयकूलयोः प्रत्येकं दशर काञ्चनकसद्भावात्, तथा विंशतिर्वक्षस्कारपर्वताः, तत्र गजदन्ताकारा गंधमादनादयश्चत्वारः तथा चतुःप्रकारमहाविदेहे प्रत्येकं चतुष्कर सदभावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता यथोक्तसङ्ख्याकाः, तथा चतुस्त्रशद्दीर्घवैताद्या द्वात्रिंशद्विजयेषु भरतैरावतयोश्च प्रत्येकमेकैकभावात्, चत्वारो वृत्तवैताढयाः हैमवतादिषु चतुर्षु वर्षेषु एकैकभावात्, 'एवामेव सपुव्वावरेणं' ति प्राग्वत्, जंबूद्वीपे द्वीपे एकोनसप्तत्यधिके द्वे पर्वतशते भवतः इत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः ।
अथ कूटानि, तत्र सूत्रं - 'जंबुद्दीवे द्वीपे कियन्ति वर्षधरकूटानि इत्यादिप्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे षट्पञ्चाशदद्वर्षधरकूटानि, तथाहि - क्षुद्रहिमवतशिखरिणोः प्रत्येकमेकादश २२ महाहिमवद्रुक्मिणोः प्रत्येकमष्टौ १६ निषधनीलवतोः प्रत्येकं नव १८ सर्वसङ्ख्यया ५६, वक्षस्कारकूटानि षन्नवति, तद्यथा-सरलवक्षस्कारेषु षोडशसु १६ प्रत्येकं चतुष्ट्यभावात् ६४ गजदन्ताकृतिवक्षस्कारेषु गंधमादनसौमनसयोः सप्त १४ माल्यवद्विद्युत्प्रभयोः नव १८ इति उभयमीलने
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International