________________
४०२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५ / २२९
इत्युक्तमिति ये आस्ते आगमसाम्मत्यं युक्तिसाङ्गत्यं च प्रष्टव्याः
उपागत्य च योजनशतसाहस्रकैः -- योजनलक्षप्रमाणैर्विग्रहैः- क्रमैरिव गंतव्यक्षेत्रातिक्रमरूपैः, एतेन स्थावरस्वरूपस्य विमानस्य पदंयासरूपाः क्रमाः कथं भवेयुरिति शङ्का निरस्ता, अवपतन् अवपतन् तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः, देवगत्या व्यतिव्रजन् २ तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन यत्रैव नंदीश्वरवरद्वीपो यत्रैव स्यैव पृथुत्वमध्यभागे दक्षिणपूर्व - आग्नेयकोणवर्त्ती रतिकरपर्वतस्तत्रैवोपागच्छति, इदं च स्थानांगाद्याशयेनोक्तं, अंयथा प्रवचनसारोद्धारादिषु पठ्यमानानां पूर्वाद्यञ्जनगिरिविदिग्व्यवस्थितवापीद्वयद्वयांतपराले बहिकोणयो प्रत्यासत्तौ प्रत्येकं द्वय२ भावेन तिष्ठतामष्टानां रतिकरपर्वतानां मध्ये विनिगमनाविरहात् कतरो रतिकरपर्वतो दक्षिणपूर्व स्यादिति, ननु सौधर्मादवतरतः शक्रस्य नंदीश्वरद्वीप एवावतरणं युस्तिमत्, न पुनरसंख्येयद्वीपसमुद्रातिक्रमेण तत्रागमनमिति, उच्यते, निर्याणमार्गस्यासंख्याततमस्य द्वीपस्य वा समुद्रस्य वा उपरिस्थितत्वेन सम्भाव्यमानत्वात् तत्रावतरणं, ततश्च नंदीश्वराभिगमनेऽसंख्याद्वीपसमुद्रातिक्रमणं युक्तिमदेवेति, अत्र दृष्टांताय सूत्रं ।
'एवं जा चेव' त्ति एवमुक्तरीत्या यैव सूर्याभस्य वक्तव्यता यथा सूर्याभः सौधर्मकल्पादवतीर्णस्तथाऽयमपीत्यर्थः, नवरं अयं भेदः - शक्राधिकारो वक्तव्यः - सौधर्मेद्रानाम्ना सर्वं वाच्यम् 'जाव तं दिव्वं' इत्यादि, प्रायो व्यक्तं, नवरमत्र प्रथमयावच्छब्दो दृष्टांतविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, स चावधिर्विमानप्रतिसंहरणपर्यतो वाच्यः, द्वितीययावच्छन्दो 'दिव्वं देवजुई दिव्वं दिव्वाणुभावं' इति पदद्वयग्राही, अस्य चायमर्थ - दिव्यां देवर्द्धि-परिवारसम्पदं स्वविमानवर्जसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात् तथा दिव्यां देवद्युतिं शरीराभरणादिहासेन तथा दिव्यं देवानुभावं देवगतिह्रस्वताऽऽपादनेन, तथा दिव्यं यानविमानं पालकनामकं जंबूद्वीपपरिमाणंयूनविस्तरायामकरणेन प्रतिसंहरन् २ - संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जंबुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहकः, ननु पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपरभ्यां केषामुत्तार इत्याह- 'तए णं सक्कस्स देविंदस्स देवरन्नो' इत्यादि व्यक्तम् । अथ शक्रः किमकार्षीदित्याह - 'तए णं से सक्के देविंदे देवराया चउरासीए' इत्यादि, कण्ठ्यं, यावत्पदसंग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह- 'नमुत्थु ते' इत्यादि, नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके! एवंप्रकारं सूत्रं यथा दिक्कुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छब्दादिदं ग्राह्यम्- जगप्पईवदाईए चक्खुणो अमुत्तस्स सव्वजग-जीववच्छलस्स हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिनस्स नाणिस्स नायग्सस् बुद्धस्स बोहगस्स सव्वलोगणाहस्स सव्वैजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जननी 'ति, कियत्पर्यतमित्याह - धंयाऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये ! शक्रो नाम देवेंद्रो देवराजा भगवतस्तीर्थकरस्य जंममहिमां करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनीं ददाति सुते मेरुं नीते सुतविरहार्त्तामा दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः ।
दत्वा च तीर्थकरस्य मेरु नेतव्यस्य भगवतः प्रतिरूपकं - जिनसध्शं रूपं विकुर्वति, अस्मासु मेरु गतेषु जंममहव्यापृतिव्यग्रेषु आसन्नदुष्टदेवतया कुतूहलादिनाऽपहतनिद्रा सती मा इयं तथा भवत्विति भगवद्रूपान्निर्विशेषं रूपं विकुर्वतीत्यर्थः, विकुर्व्य च तीर्थकरमातुः पार्श्वे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुर्व्य च तेषां पञ्चानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org