SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१५९ पूर्वतश्चतुर्थं तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणतो दक्षिणापरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमंतथा पश्चिमदिग्भाविनो भवनस्योत्तरतः उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठंतथा उत्तरदिग्भाविनोभवनस्यपश्चिमायां उत्तरपश्चिमदिग्भाविनःप्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्भाविनो भवनस्य पूर्वतः उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य अपरतोऽष्टममिति, अत्रैषां स्थापना यथा यन्त्रेतथा विलोकनीया, अथजम्ब्बा नामोत्कीर्तनमाहमू. (१६०) सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३ जसोहरा ४। विदेहजंबू ५ सोणसा ६, निअया ७ निच्चमंडिआ८॥ मू. (१६१) सुभद्दा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विआ। सुदंसणाएजंबूए, नामधेजा दुवालस॥ वृ.जम्ब्वाः सुदर्शनायाः द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथा-सुष्टु-शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः सा तथा, अमोघा-सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, सुष्ठु-अतिशयेन प्रबुद्धा-उत्फुल्ला उत्फुल्लफुल्लयोगादियमप्युत्फुल्ला, सकलभुवनव्यापकं यशो धरतीति यशोधरा, 'लिहादित्वादच्' जम्बूद्वीपो ह्यनया जम्ब्वा भुवनत्रयेऽपि विदितमहिमा ततः सम्पन्नं यथोक्तयशोधारित्वमस्याः, विदेहेषुजम्बूः विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृनिवासत्वात्, सौमनस्यहेतुत्वात् सौमनस्या, न हि तां पश्यतः कस्यापि मनोदुष्टं भवति, नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यमण्डितासदा भूषणभूषितत्वात्, सुभद्रा-शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपद्रवसम्भवोमहर्द्धिकेनाश्रितत्वात्, चः समुच्चये, विशाला-विस्तीर्णा, चः पूर्ववत्, आयामविष्कम्भाभ्यामुच्चत्वेनचाष्टयोजनप्रमाणत्वात्, शोभनंजातं-जन्मयस्यः सा सुजाता, विशुद्धमणिकनकरत्लमूलद्रव्यजनिततया जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु विदेहजम्ब्वादीनां सुदशर्नादीनांच नाम्ना व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति। मू. (१६२) जंबूए णं अट्टमंगलगा०, से केणद्वेणं भंते ! एवं वुच्चइ-जंबू सुदंसणा २ गोअमा ! जंबूए णं सुदंसणाए अनाढिए नामंजंबुद्दीवाहिवई परिवसइ महिद्धीए, से णं तत्थ चउण्हंसामाणिअसाहस्सीणंजाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवस्सणंदीवस्सजंबूएसुदंसणाए अणाढिआए रायहाणीए अन्नेसिं च बहूणं देवाण य देवीण य जाव विहरइ, से तेणट्टेणं गो० ! एवं वुच्चइ, अदुरुत्तरा णं च णं गोअमा! जंबूसुदंसणा जाव भुविं च ३ धुवा निअआ सासाया अक्खया जावअवट्ठिआ। कहिणंभंते! अणाढिअस्स देवस्सअणाढिआ नामंरायहाणी पन्नता?, गोअमा! जंबूद्दीवे मंदरस्स पव्वयस्स उत्तरेणंजंचेव पुव्ववण्णिअंजमिगापमाणंतं चेव नेअव्वं, जाव उववाओ अभिसेओ अनिरवसेसोत्ति। _वृ. 'जंबूएणंअट्ठमंगलगा' इति व्यक्तं, उपलक्षणाद्ध्वजच्छत्रादिसूत्राणिवाच्यानीति, सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तंपिपृच्छिरिदमाह-'सेकेणद्वेण मित्यादि,प्रश्नःप्रतीतः,उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनाद्दतो नाम जम्बूद्वीपाधिपतिर्न आध्ता-आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसशं महर्द्धकत्वमीक्षमाणेन सोऽनाईत इति यथार्थनामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy