________________
वक्षस्कारः-४
३१९
बावहिजोअणाइं अद्धजोअणंच उद्धं उच्चत्तेणं इक्कतीसंजोअणाइंकोसंच विक्खम्भेणं अब्भुग्गयमूसिअपहसिआइव, तहेव बहुसमरमणिज्जे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तत्थणं चत्तारि देवा महिद्दीआ जाव पलिओवमट्ठिआपरिवसंति तं०-असोए सत्तिवण्णे चंपए चूए' अत्राशोकवनप्रासादेऽशोकनामा देवः, एवं त्रिष्वपि तत्तन्नामानो देवाः परिवसन्ति,
अथानयोरन्तर्भागवर्णकमाह- यमिकयो राजधान्योरलमध्यभागे बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वाजावपंचवण्णेहिंमणीहिंउवसोभिए वनसंडविहुण जाव बहवे देवा य देवीओ अ आसयंति जाव विहरंती'त्यन्तो ग्राह्यः, अत्र च उपकारिकालयनसूत्र- मादर्शेष्वद्दश्यमानमपि राजप्रश्नीयसूत्रायभविमानवर्णके जीवाभिगमे विजयाराजधानीवर्णकेच दृश्यमानत्वात् तिन्निजोअणसहस्साइंसत्त यपंचानउएजोअणसए परिक्खेवेण'मित्यादिसूत्र-स्यान्यथानुपपत्तेश्च जीवाभिगमतो लिख्यते,
आदर्शेष्वश्यमानत्वं च लेखकवैगुण्यादेवेति, तद्यथा- तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे अत्रान्तरे द्वे उपकारिकालयने प्रज्ञप्ते, उपकरोति-उपष्टभ्राति प्रासादावतंसकानित्युपकारिका- राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेतिप्रसिद्धा, उक्तं च-"गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति सा लयनमिव-गहमिवते प्रतिराजधानि भवत इति द्वेउक्ते, द्वादशयोजनशतानिआयामविष्कम्भाभ्या त्रीणि योजनसहस्राणि सप्त च योजनशतानि पञ्चनवत्यधिकानि परिक्षेपेण, अर्द्धकोशंधनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं २ प्रत्युपकारिकालयनं पद्मवरवेदिकापरिक्षिप्ते प्रत्येकं २ वनखण्डवर्णको भणितव्यः,सच जगतीगतपद्मवरवेदिकास्थवनखण्डानुसारेणेति, त्रिसोपानप्रतिरूपकाणि-आरोहावरोहमार्गास्तानिचतुर्दिशि-पूर्वादिदिक्षु ज्ञेयानि तोरणानि चतुर्दिशि भूमिभागश्चोप- कारिकालयनमध्यगतो भणितव्यः, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैव-“से णं वनसंडे देसूणाई दो जोअणाइं चक्कवालविखंभेणं उवयारिआलयणसमए परिक्खेवेणं तेसि णं उवयारि- आलयणाणं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, वण्णओ, तेसिणंतिसोवाणपडिरूव-गाणं पुरओ पत्तेअंर तोरणा पन्नत्ता, वण्णओ, तेसिणंउवयारियालयणाणंउपिंबहुसमरमणिज्जे भूमिभागेप० जाव मणीहिं उवसोभिए'इति, अत्र व्याख्या सुगमा, अथ यमकदेवयोर्मूलप्रासाद स्वरूपमाह
'तस्स ण'मित्यादि, तस्योपकारिकालयनस्य बहुमध्यदेशभागे अत्रान्तरे एकः प्रासादावतंसकः प्रज्ञप्तः द्वाषष्टिं योजनान्यद्धयोजनं च ऊर्वोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं चायामविष्कम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः, उल्लोको-उपरिभागौ भूमिभागौ-अधोभागी सिंहासने सपरिवारे-सामानिकादिपरिवारभद्रासनव्यवस्थासहिते, यच्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमिभागसिंहासनानांच द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्यपरिवारप्रासादयप्ररूपनामाह-‘एवंपासायपंतीओ'इत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्क्त्यो ज्ञातव्या जीवाभिगमतः, पङ्क्त्यश्चात्र मूलप्रासादतश्चतुर्दिक्षुपद्मानामिव परिक्षेयरूपाअवगन्तव्याः, नपुनः सूचिश्रेणिरूपाः, तत्र प्रथमपासादपंक्तिपाठ एवं- ‘से णं पासायवडेंसए अन्नेहिं चउहिं तदद्धच्चत्तपमाणमित्तेहिं
Jain Education International
For Private For Private & Personal Use Only
www.jainelibrary.org