________________
२९२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / १२९
त्रिपदो बहुव्रीहि, पदविपर्यासः प्राकृतत्वात्, शेषं सुबोधं, नवरं घण्टावलेर्वा वशेन चलिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा, 'तेसि ण' मित्यादि, अस्य व्याख्या प्राग्वत् ।
'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूता इत्याह- अच्छा-आकाशस्फटिकवदतिनिर्मलाः, श्लक्ष्णपुदगलस्कन्धनिर्मापिताः, रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रमयो दण्डो रूप्यपट्ट्मध्यवर्त्ती येषा ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो योगन्धः स विद्यते येषां ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजालमगन्धिकाः 'अतोऽनेकस्वरा' दितीकप्रत्ययः, त एव सुरम्याः, पासाईआ इत्यादि प्राग्वत्, 'तेसि ण'मित्यादि, अस्य व्याख्या प्राग्वत् । अथ गङ्गाद्वीपवक्तव्यतामाह- 'तस्स गङ्गप्पवाय' इत्यादि, तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेऽत्र महानेको गङ्गादेव्यावासभूतो द्वीपो गङ्गाद्वीप इति नाम्ना द्वीपः प्रज्ञप्तः मध्यलोपी समासात् साधुः, अष्टौ योजनान्यायामविष्कम्पेन सातिरेकाणि पञ्चविंशतिं योजनानि परिक्षेपेण द्वौ क्रौशो यावदुच्छ्रितो जलान्तात्-लपर्यन्तात् सर्वतोवर्त्तिजलस्य जलानावृतस्य क्षेत्रस्य द्वीपव्यवहारात् शेषं व्यक्तं, 'सेणमित्यादि, स गङ्गाद्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तः, वर्णकश्च भणितव्यो जगतीपद्मवरवेदिकावदिति, अथ तत्र यद्यदस्ति तदाह-‘गंगादीवस्स ण’मित्यादि, गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्तं, आयामदिविभागदिकं शय्यावर्णकपर्यन्तं सूत्रं सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थ पृच्छति - 'से केणट्टेण' मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुपसर्पतितथाऽऽह-'
'तस्स ण' मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा निर्गता सती गङ्गामहानदी उत्तरार्द्धभरतवर्षं इग्रती २ - गच्छन्ती २ सप्तभिः सलिलानां नदीनां सहस्रैरापूर्यमाणा. २-भ्रियमाणा अधः खण्डप्रपातगुहाया वैताढ्यपर्वतं दारयित्वा - भित्वा दक्षिणार्द्धभरतं वर्षं इयती २ दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्र समग्रा - संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतींजम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रं समुपसर्पति - अवतरतीत्यर्थः, अथास्या एव प्रवहमुखयोः पृथुत्वोदवेधौ दर्शयति, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः पद्मद्रहात्तोरणान्निर्गम इत्यर्थः, तत्र षट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपञ्चाशत्तमभागरूपत्वात्, अस्तीति शेषः । 'तदनन्तर' मिति पद्मद्रहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रं स व्यासोऽनुवृत्तस्ता वतक्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादननतरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुख- प्रणालनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स ति, श्री समवायाङ्गवृत्ती श्रीमलयगिरिपादैश्च बृहत्क्षेत्रसमासवृत्तौ पद्मद्रहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयं, मात्रया २ - क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्दश कवृद्धया प्रतिपार्श्व धनुःपञ्चकवृद्येत्यर्थ परिवर्द्धमाना २ मुखे समुद्रप्रवेशे द्वाषष्टिं योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात्, सक्रोशं योजनमुद्वेदेन सार्द्धद्वाष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org