________________
१८६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५६ कुर्वन्तीत्याह
'तएणमित्यादि, ततो-भरताज्ञानन्तरंकौटुम्बिकाः-अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताःसन्तो हृष्टाः करतलेत्यारभ्य यावत्पदग्राह्यंपूर्ववत्, एवं स्वामिन् ! यथाऽऽयुष्मत्पादा आदिशन्तितथेत्यर्थः, इति कृत्वा-इति प्रतिवचनेनेत्यर्थः,आज्ञायाः-स्वामिशासनस्योक्तलक्षणेन नियमेन, अत्रच आणाएविणएणमितिएकदेशग्रहणेन पूर्णोऽभ्युपगमालापकोग्राह्यः,अंशेनांशी गृह्यते, इति वयणंपडिसुणंति'त्तिवचनंप्रतिशृण्वन्ति अङ्गीकुर्वन्तीति, ततस्ते किं कुर्वन्तीत्याह'पडिसुणित्ता' इत्यादि, प्रतिश्रुत्य तस्यान्तिकात्प्रतिनिष्कामन्तिप्रतिनिष्कम्यच विनीतां राजधानी यावत्पदेनानन्तरोक्तविशेषणविशिष्टां कृत्वा कारयित्वाचतामाज्ञप्तिं भरतस्य प्रत्यर्पयन्ति। अथ भरतः किं चक्रे इत्याह- 'तए णं से भरहे'इत्यादि, ततः स भरतो राजा यत्रैव मजनघरं तत्रैवोपागच्छति, उपागत्य चमज्जनगृहं अनुप्रविशति, अनुप्रविश्य च समुक्तेन-मुक्ताफलयुतेन जालेन-गवाक्षेणाकुलो-व्याप्तोऽभिरामश्चयस्तस्मिन्, विचित्रमणिरत्नमयकुट्टिमतलं-बद्धबूमिका यत्र स तथा तस्मिन्, अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रत्नानां च भक्तयो- यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने सुखेन निष्ण्णः-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा-नात्युष्णै तिशीतैरित्यर्थः गन्धोदकौः-चन्दनादिरसमिथैः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्चस्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, 'मज्जिए'त्तिउत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेनकान्तिजननश्रमज(ह)ननादिगुणार्थं मजनमुक्तं, अथारिष्ठविधातार्थमाह-पुनः कल्याणकारिप्रवरमञ्जनस्यविरुद्धग्रहपीडानिवृत्यर्थःकविहितौ- षध्यादिस्नानस्य विधिना 'टुमस्जौत् शुद्धौ' इत्यस्य शुद्धयर्थकत्वेन स्नानार्थकत्वान्मज्जितः- स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मज्जित इत्याह-तत्र-स्नानावसरे कौतुकानां-रक्षादीनांशतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यकप्रयोगार्थं दर्यमानैः कौतुकशतैः-भाण्डचेष्टादि-कुतूहलैर्बहुविधैः-अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह
'कल्लाणग'इत्यादि, कल्याणकप्रवरमज्जनावसानेस्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अतएवसुकुमालया गन्धप्रधानयाकषायेण-पीतरक्तवर्णाश्र-यरञ्जनीयवस्तुनारक्ताकाषायिकी तया कषायरक्तया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलिप्तगात्रः, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः सुमहाधु-बहुमूल्यं यद्देष्यरत्नं-प्रधानवस्त्र तत्सुसंवृतं-सुष्टुपरिहितं येन स तथा, अनेनादौ वस्त्रलङ्कार उक्तः, अत्र च वस्त्रासूत्रं पूर्वं योजनीयं चन्दनसूत्रं पश्चात्, क्रमप्राधान्याद्यख्या- नस्य, न हि स्नानोत्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः, शुचिनी-पवित्रे मालावर्णक- विलेपनेपुष्पसग्मण्डनकारिकुंकुमादिविलेपने यस्य स तथा, अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुःसौगन्ध्यार्थमेव विलेपनमभिहितं अत्र तु वपुर्मण्डनायेति विशेषः, आविद्धानि-परिहितानि मणिसुवर्णानि येन सतथा, एतेनास्य रजतरीरिमयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्मालङ्कारानेव विशेषत आह
__ कल्पितो-यथास्थानं विन्यस्तोहारः-अष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंच प्रतीतं येनस तथा प्रलम्बमानः प्रालम्बो-झुम्बनकं यस्यसतथा, सूत्रेच पदव्यत्ययःप्राकृतत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org