________________
वक्षस्कारः-२
१४१
ग्रीष्मकालमासानांमध्ये प्रथमोमासःप्रथमः पक्षश्चैत्रबहुलः-चैत्रान्धकारपक्षस्तस्य नवम्यास्तिथेः पक्षो-ग्रहो यस्य, तिथिमेलपातादिषुतथा दर्शनात्, तिथिपातेतत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात्, स नवमपक्षः-अष्टमीदिवसस्तत्र, अनेन व्याख्यानेन 'चित्तबहुलट्ठमीए' इत्याद्यागमविरोधो न, वाचनान्तरेण नवमीपक्षो-नवमीदिवसः दिवसस्याष्टमीदिवसस्य मध्यंदिनादुत्तरकाले यद्यपि दिवसशब्दस्याहोरात्रवाचकत्वमन्यत्र प्रसिद्धं तथाऽप्यत्र प्रस्तावाद्दिवसो गतो रजनिरजनि इत्यादिवत् सूर्यचारविशिष्टकालविशेषग्रहणं, अन्यथा दिवसपाश्चात्यभागस्यानुपपत्तेः, त्यक्त्वा हिरण्यं-अघटितंसुवर्णरजतंवासुवर्ण-घटितं हेम हेमवाकोशं-भाण्डागारकोष्ठागारं-धान्याश्रयगृहं, बलं-चतुरगंवाहनं-वेसरादिपुरान्तःपरेव्यक्तेविपुलंधनं-गवादिकनकंच-सुवर्णं (रमन्तेग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानिमणयश्च प्राग्वत्, मौक्तिकानि-शुक्त्याकाशादिप्रभवानि, शङ्खाश्चदक्षिणावर्तः सिला-राजपट्टादिरूपाः, प्रवालानि-विद्रुमाणि रक्तरलानि-पद्मरागाः, पृथग्ग्रहणमे, प्राधान्यख्यापनार्थं, उक्तस्वरूपं यत्सत्सारं-सारातिसारं स्वापतेयं-द्रव्यं तत्त्यक्त्वा-ममत्वत्यागेन विच्छz-पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, कथंच निश्रात्याजनमित्याह
'दायिकानां' गोत्रिकाणां ‘दायं' धनविभागं परिभाज्य' विभागशो दत्वा, तदा च नि थपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपिच भगवत्प्रेरिता निर्ममास्सन्तःशेषामात्रं जगृहुः, इदमेव हि जगद्गुरोजीतं यदिच्छावधि दानं दीयते, तेषां च इयतैव इच्छापूर्ति, ननु यदीच्छावधिकं प्रभोर्दानं तर्हि ऐदंयुगीनो जन एकदिनदेयं संवत्सरदेयं वा एक एव जिघृक्षेत्, इच्छाया अपरिमितत्वात्, सत्यं, प्रभुप्रभावेनैताद्दशेच्छाया ससम्भवात्, सुदर्शनानाम्न्यां शिबिकायामारूढमिति गम्यं ?
किंविशिष्टं भगवन्तं सदेवमनुजासुरया'स्वर्गभूपातालवासिजनसहितया पर्षदा' समुदायेन समनुगम्यमानं, ईद्दशं च प्रभुं अग्रे-अग्रभागे शांखिकादयोऽभिनन्दयन्तोऽभिष्टुवन्तश्च एवंवक्ष्यमाणमवादिषुरित्यन्वयः, तत्र शांखिकाः-चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खमावा, चाक्रिकाः-चक्रभ्रामकाः, लाड्गलिकाःगलकावलम्बितसुवर्णादिमयहलधारिणो भट्टविशेषाः मुखमगलिकाः-चाटुकारिणः पुष्पमाणवा-मागधाः वर्धमानकाः-स्कन्धारोपितनराःआख्यायकाःशुभाशुभकथकाः लंखा-वंशानखेलकाः मङ्खाः-चित्रफलकहस्ताः भिक्षाका-गौरीपुत्रा इति रूढा घाण्टिकाः-घण्टावादकास्तेषां गणाः, सूत्रे च आर्षत्वात् प्रथमार्थे तृतीया, यथाश्रुतव्याख्याने च शाङ्घिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं चान्वययोजनार्थमध्याहाहँ स्यात्, साध्याहारव्याख्यातोऽनध्याहारव्याख्यायां लाघवमिति।
पञ्चमाङ्गे जमालिचरित्रे निष्क्रमणमहवर्णने शाङिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः, यदि च 'प्रायः सूत्राणि सोप्काराणि भवन्तीति न्यायोऽनुम्रयते तदा साध्याहारव्याख्यानेऽप्यदोषः, ताभि-विवक्षिताभिरित्यर्थः, वाग्भिरभिननदयन्तश्चाभिष्टुवन्तश्चेति योजना, विवक्षितत्वमेवाह-इष्यन्ते मेतीष्टास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-‘कान्ताभिः' कमनीयशब्दाभि प्रियाभिः' प्रियार्थाभिः मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभि मनसा अभ्यन्ते-गम्यन्ते पुनः पुनः या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org