________________
प्राभृतं ४, प्राभृतप्राभूतं
शेषं तदेव प्रागुक्तं वक्तव्यं, तच्चेदम्- 'दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिकखेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थ - दशभिश्छित्वा - दशभिर्विभज्य दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि मेरुपर्वतपरिरयपरिमाणमेकत्रिंशद्योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टि सहस्राणि द्वे शते षटचत्वारिंशदधिके एतेषां दशभिर्भागे हृते लब्धानि षट् योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट् च दशभागा योजनस्यतत एष एतावनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया वाहाया विष्कम्भपरिमाणम्, अधुना सर्ववाह्याया बाहाया आह— ‘तीसे ण’मित्यादि, तस्याः - अन्दकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्ते - लवण समुद्रसमीपे जम्बूद्वीपपर्यन्ते सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टिर्योजन - सहस्राणि द्वे पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्य यावत् । एतदेव स्पष्टं स्वशिष्यानवबोधयितुं भगवान् गौतमः पृच्छति ।
'ता सेण' मित्यादि, ता इति प्राग्वत्, तस्याः - अन्धकारसंस्थितेः सः - तावान् परिक्षेपविशेषो जम्बूद्वीपपरिक्षेपणविशेषः कुतः ? - कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् ?, भगवान् वर्द्धमानस्वामी आह–‘ताजेण' मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशमिश्छित्वा - दशभिर्विभज्य, अत्र कारणं प्रागेवोक्तं, दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूद्वीपपरिरयपरिक्षेपणभागच्छति, तथाहि -जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लाणि षोडश सहसामि द्वे शते अष्टाविंशत्यधिके एतद् द्वाभ्यां गुण्यते, जातानि षट् लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि षटपञ्चाशदधिकानि तेषां दशभिर्भागे ह्वते लब्धानि त्रिषष्टिरोयनजसहस्राणि द्वे शते पञ्चचत्वारिंशदधिके षट् च दशभागा योजनस्य तत एष एतावान् अनन्तरोदितप्रमाणोऽ न्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपणविशेष आख्यात इति वदेत्, तदेवमुक्तं सर्वबाह्यया अपि बाहाया विष्कम्भपरिमाणं, सम्प्रति सामस्त्येनान्धकारसंस्थितेरायामप्रमाणमाह- 'तीसे ण' मित्यादि, इदं चायामप्रमाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत्परिभावनीयं समानभावनिकत्वात् । अत्रैव सर्वाभ्यन्तरे मण्डले वर्त्तमानयोः सूर्ययोर्दिवसरात्रिमुहूर्त्तप्रमाणमाह
८१
'तयाण' मित्यादि सुगमं । तदेवं सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिं अन्धकारसंस्थितिं चाभिधाय सम्प्रति सर्वबाह्यमण्डले तामभिधित्सुराह - 'ता जया णमित्यादि, ता इति पूर्ववत्, यदा सूर्य सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा किसंस्थिता तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, भगवानाह - 'ताऊद्धमुहे 'त्यादि, ता इति पूर्ववत्, ऊर्ध्वमुखकलम्वुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता (इति) वदेत् स्वशिष्येभ्यः । एवमित्यादि, एवं पूर्वोक्तेन प्रकारेण यदभ्यन्तरमण्डले अभ्यन्तरमण्डलगते सूर्ये अन्धकारसंस्थितेः प्रमाणमुक्तं तद्वाह्यमण्डले - बाह्यमण्डलगते सूर्ये तापक्षेत्रसंस्थितेः परिमाणं भणितव्यं, यत्पुनस्तत्र - सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये तापक्षेत्रसंस्थितेः प्रमाणं तद्बाह्यमण्डले वर्त्तमाने सूर्येऽन्धकारसंस्थितेः प्रमाणमभिधातव्यं,
12 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org