________________
प्राभृतं ४, प्राभृतप्राभृतं -
७९
विष्कम्भपरिमाणमुक्तं, इदानीं लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते या सर्वबाह्या वाहा तस्या विष्कम्भपरिमाणमाह- 'तीसे ण' मित्यादि, तस्याः -तापक्षेत्रसंस्थितेः लवणसमुद्रान्ते - लवण - समुद्रसमीपे सर्वबाह्या वाहा सा परिक्षेपेण- जम्बूद्वीपपरिरयपरिक्षेपेण चतुर्नवतियोजनसहस्राणि अष्टौ च अष्टषष्टयधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य यावदाख्याता इति वदेत्, अत्रैव स्पष्टावबोधाधानाय प्रश्नं करोति- 'ता से न' मित्यादि, ता इति पूर्ववत्, स एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः कुतः ? कस्मात् कारणादाख्यातो नोनोऽधिको वेति वदेत्, भगवानाह -
'ता जेण 'मित्यादि, ता इति पूर्ववत् यो जम्बूद्वीपस्य परिक्षेपः- परिरयगणितप्रसिद्धस्तं परिक्षेपं त्रिभिर्गुणयित्वा चतनन्तरं च दशभिश्छित्वा - दशभिर्विभज्य अत्रार्थे कारणं प्रागुक्तमेवानुसरणीयं दशभिर्भागे हियमामे यथोक्तं जम्बूद्वीपपर्यन्ते तापक्षेत्रपरिमाणमाच्छति, तथाहिजम्बूद्वीपस्य परिक्षेपस्त्रणि लक्षाणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि ३ अष्टाविंशं धनुः शतं त्रयोदश अङ्गुलानि एकमर्द्धाङ्गुलं, एतावता च योजनमेकं किल किञ्चिन्यूनमिति व्यवहारतः परिपूर्णं विवक्ष्यते, ततो द्वे शते अष्टाविंशत्यधिके वेदितव्ये एष त्रिभिर्गुण्यते जातानि नव लक्षाणि अष्टाचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि एतेषां दशभिर्भागो हियते, लब्धं यथोक्तं जम्बूद्वीपपर्यन्ते सर्वबा- ह्याया बाहाया विष्कम्भपरिमाणं, ततः 'एस न' मित्यादि, एष एतावान् अनन्तरोदितप्रमाणः परिक्षेपविशेषो जम्बूद्वीपपरिरयः परिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत्, उक्तं चैतदन्यत्रापि
119 11
"जंबुद्दीवपरिरये तिगुणे दसभाइयंमि जं लद्धं ।
तं होइ तावखित्तं अभितरमंडले रविणो ॥ "
तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरायाः सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणमुक्तं । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं जिज्ञासुस्तद्विषयं प्रश्नमाह
'ता से णं० ता इति पूर्ववत्, तापक्षेत्रं आयामतः सामस्त्येन दक्षिणोत्तरायततया कियत्-किंप्रमाणमाख्यातमिति वदेत् ?, भगवानाह - 'ता अड्डत्तर' मित्यादि ता इति पूर्ववत् अष्टसप्तति योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि - त्र्यस्त्रिंशदधिकानि योजनत्रिभागं च यावत् आयामेन दक्षिणोत्तरायततया आख्यातमिति वदेत्, तथाहि - सर्वाभ्यन्तरे मण्डले वर्त्तमानस्य सूर्यस्य तापक्षेत्रं दक्षिणोत्तरायततया मेरोरारभ्य तावद्वर्द्धते यावल्लवणसमुद्रस्य षष्ठो भागः, उक्तं च
119 11
" मेरुस्स मज्झभागाजाव य लवणस्स रुंदछब्भागा ।
तावायामो एसो सगडुद्धीसंठिओ नियमा ॥”
अत्र 'सो' इत्यादि, एष तापो नियमात् खशकटोद्धिसंस्थितः, शेषं सुगमं, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि लवणस्य विस्तारो द्वे योजनलक्षे तयोः षष्ठो भास्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि योजनस्य च त्रिभागः, तत उभयमीलने यथोक्तमायामप्रमाणं भवति,
इह सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य लेश्या अभ्यन्तरंप्रविशन्ती मेरुणा प्रतिस्खल्यते, यदि पुनर्न प्रतिस्खल्यते ततो मेरोः सर्वमध्यभागगतं प्रदेशमवधीकृत्यायामतो जम्बूद्वीपस्य पञ्चाशतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org