SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ४, प्राभृतप्राभृतं ৩9 यावद्वालाग्रपोत्तिकासंस्थिताप्रज्ञप्ता इति, तच्चैवम्-“एगे पुणएवमाहंसुगेहावणसंठिया तावखेत्तसंठिई प० एगे एव०२, एगेपुण एवमाहंसु पासायसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु गोपुरसंठिया तावखित्तसंठिई प०, एगे एवमाहंसु ४। एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखित्तसंठिई पन्नत्ता, एगेएवमाहंसु ५, एगे पुण एवमाहंसुवलभीसंठिया तावखित्तसंठिईपन्नत्ता, एगे एवमाहंसु ६, एगे पुणएवमाहंसुहम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु७, एगे पुण एवमाहंसुवालग्गपोत्तियासंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ८ । अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्तव्या, ‘एगे पुण'इत्यादि एके पुनरेवमाहुः ‘जस्संठिय'त्ति यत् संस्थितं-संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपोद्वीपस्तत्संस्थिता-तदेव-जम्बूद्वीपगतंसंस्थितं-संस्थानंयस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारः “एगेएव०'९, एके पुनरेवमाहुः-यत्संस्थितंभारतं वर्षं तत्संस्थितातापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्र विग्रहभावना प्रागिव वेदितव्या, अत्रोपसंहारः ‘एगे एवमाहंसु' १०, एवंउक्तेन प्रकारेण उद्यानसंस्थिता तापक्षेत्रसंस्थितिरपरेषामभिप्रायेण वक्तव्या, साचैवम्-‘एगे पुण एव० उज्जाणसंठिया तावखित्तसंठिईप० एगे एव०अत्र उद्यानस्येव संस्थितं-संस्थानं यस्याः सातथेति विग्रहः ११, निजाणसंठिय'ति निर्याणं-पुरस्य निर्गमनमार्ग तस्येवसंस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-‘एगे पुण एवमाहसु, निजाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १२।। ___“एगतोनिसहसंठिय'त्ति एकतो-रथस्य एकस्मिन् पार्वे यो नितरां सहते स्कन्ध पृष्ठे वा समारोपितंभारमिति निषधो-बलीवईस्तस्येव संस्थितं-संस्थानं यस्याःसा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, साचैवम्-‘एगे पुणएवमाहंसु, एगतोनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १३, 'दुहतोनिसहसंठिय'त्ति अपरेषामभिप्रायेणोभयतोनिषधसंस्थिता वक्तव्या, उभयतो-रथस्योभयोओः पार्श्वयो? निषधौ-बलीवौ तयोरिव संस्थितं-संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या-'एगे पुण एवमाहंसु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १४ 'सेयणदगसंठिय'त्ति श्येनकस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैवम्-‘एगे पुण एवमाहंसु सेयाणसंठिया तावखित्तसंठिई पन्नत्ता एगे एवमाहंसु'१५, ‘एगे पुण'इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव-श्येनपृष्ठस्येव संस्थितं-संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारमाह-'एगे एव १६। तदेवमुक्ताः षोडशापि प्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्मुपदर्शयति- 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः,-'उद्धीमुखे’ त्यादि, ऊर्ध्वमुखकलम्बुकपुष्प-संस्थिता-ऊर्ध्वमुस्य कलम्बुकापुष्पस्येव-नालिकापुष्पस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थिति प्रज्ञप्ता, मया शेपैश्च तीर्थकृद्भिः, सा कथम्भूतेत्यत आह-अन्तः-मेरुदिशि संकुचा-संकुचिता बहि:- लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता-वृत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागानभिव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy