________________
७५
प्राभृतं ४, प्राभृतप्राभृतं
वृ. 'ता कहं ते सेयाए संठिई आहियाइति वदेज्जा?' ता इति पूर्ववत्, कथं भगवन् ! त्वया श्वेततायाः संस्थितिराख्याता इति भगवान् वदेत् ?, एवं भगवता गौतमेनोक्ते वर्द्धमानस्वामी भगवानाह-'तत्थे' त्यादि, तत्र श्वेतताया विषये खल्वियं-वक्ष्यमाणस्वरूपा द्विविधासंस्थितिः, 'तद्यथा' तामेव तद्यथेत्यादिनोपदर्शयति, तद्यथेत्यत्र तच्छब्दोऽव्ययं, ततोऽयमर्थ-सा श्वेतता यथा-येन प्रकारेण द्विधा भवति तथोपदयते, चन्द्रसूर्यसंस्थितिस्तापक्षेत्रसंस्थितिश्च, इह श्वेतता चन्द्रसूर्यविमानानामपिविद्यतेतत्कृततापक्षेत्रस्य चततः स्वेततायोगादुभयमपिश्वेतताशब्देनोच्यते, तेनोक्तप्रकारेण श्वेतता द्विविधा भवति, तत्र चन्द्रसूर्यसंस्थितिविषये प्रश्नयति__ताकहं ते'इत्यादि, ता इति प्राग्वत्, कथं ते-त्वया भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इतिवदेत्?, इह चन्द्रसूर्यविमानानां संस्थानरूपासंस्थितिप्रागेवाभिहितातत इह चन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपिअवस्थानरूपा पृष्टा द्रष्टव्या, एवमुक्तेभगवानेतद्विषये यावत्यः परतीर्थिकाणां प्रतिपत्तयस्तातीरुपदर्शयति- 'तत्थे' त्यादि, तत्रचन्द्रसूर्यसंस्थितौ विचार्यमाणायांखल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः,-एके वादिन एवमाहुः-समचतुरनसंस्थिता चन्द्रसूर्यसंस्थितःप्राप्ता,समचतुरम्न संस्थितिं- संस्थानं यसयाश्चन्द्रसूर्यसंस्थितेः सा तथा, अत्रैवोपसंहारवाक्यमाह
__एगेएवमाहंसु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १,एके पुनरेवमाहुः विषमचतुरनसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्राप विषमचतुरनं संस्थानं यस्याः सातथेति विग्रहः २, एवं समचउक्कोणसंठिय'त्ति एवं-उक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्-‘एगे पुणएवमाहंसु समचउक्कोणसंठियाचंदिमसूरियसंठिई पनत्ता, एगेएवमाहंसु' अत्र ‘समचउक्कोणसंठिय'त्ति समाश्चत्वारः कोणा यत्रतत् समचतुष्कोणं (तत्) संस्थितं-संस्थानं यस्याः सा तथेति विग्रहः ३, ‘विसमचउक्कोणसंठिय'त्ति ‘एगे पुण एवमाहंसु-विसमचउक्कणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'४।
समचक्कवालसंठिय'त्ति समचक्रवालं-समचक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्- 'एगे एवमाहंसुं समचक्कवालसंठिया चंदिमसूरियासंठिई पन्नत्ता, एगे एवमाहंसु ५, 'विसमचक्कवालसंठिय'त्तिविषमचक्रवालं-विषमयक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तता अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्यता सा चैवम्-‘एगे एवमाहंसु विसमचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ६, 'चक्कद्धचक्कवाल संठिय'त्ति चक्रस्य-रथाङ्गस्य यदर्द्धचक्रवालं-चक्रवालस्यार्द्ध तद्रूपं संस्थितंसंस्थानंयस्याः सातथा, अन्येषाभिप्रायेणवक्तव्या, साचैवम्-‘एगे पुणएवमाहंसुचक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'७, 'एगे पुण'इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता, अत्रैवोपसंहारः ‘एगे एवमाहंसु' ८।
गेहसंठिय'त्ति गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा चैवम्--‘एगे पुणएवमाहंसु गेहसंठिया चंदिमसूरियसंठिईपन्नत्ता, एगे एवमाहंसु' ९, 'मेहावणसंठियत्तिगृहयुक्तआपणोगृहापणो-वास्तुविद्याप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या,सा चैवम्-‘एगे पुणएवमाहंसु, गेहावणसंठियाचंदिमसूरियसंठिईपन्नत्ता, एगेएवमाहंसु' १०, पासायसंठिय'त्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org