SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २, प्राभृतप्राभृतं -३ द्विचत्वारिंशदेकषष्टिभागः । एतावद् द्वितीये मण्डले दृष्टिपथप्राप्तताविषये सर्वाभ्यन्तरमण्डलगतात् द्दष्टिपथप्राप्ततापरिमाणात् हानौ प्राप्यते, किमुक्तं भवति?-- सर्वाभ्यन्तरमण्डलगतात्ष्टिपथप्राप्ततायांहानौध्रुवं, अतएवध्रुवराशिपरिमाणात् द्वितीये मण्डले दृष्टिपथप्राप्ततापरिमाणेतावता हीनं भवतीति, एतच्चोत्तरोत्तरमण्डलविष्यदृष्टिपथप्राप्तताचिन्तायांहानौ ध्रुवं, अतएव ध्रुवराशिरितिध्रुवराशेरुत्पत्ति, ततोद्वितीयस्मान्मण्डलादनन्तरे तृतीयेमण्डले एष एवध्रुवराशि एकस्य षष्टिभागस्य सत्कैः षट्त्रिंशतैकषष्टिभागैः सहितः सन्यावान् भवति तद्यथा-त्र्यशीतिर्योजनानि चतुर्विंशति षष्टिभागा योजनस्य सप्तदश एकस्य षष्टिभागस्य सत्काएकषष्टिभागा इति, एतावान् द्वितीयमण्डलगतात्द्दष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो भवति यथोक्तं तस्मिन् तृतीये मण्डले दृष्टिपथप्राप्तताविषयं परिमाणं, चतुर्थे मण्डले स एव ध्रुवराशिर्वासप्तत्या सहितः क्रयते, चतुर्थं हि मण्डलं तृतीयापेक्षया द्वितीयं, ततः षटत्रिंशद् द्वाभ्यां गुण्यते, गुणिता च सती द्विसप्तति- भवति, तया च सहितः सन् एवंरूपो जातस्त्रयशीतिर्योजनानि चतुर्विंशति षष्टिभागा योजनस्य त्रिपञ्चाशदेकस्य षष्टिभागस्य सत्का एकषष्टि गाः ___ एतावान्तृतीयमण्डलगतात्द्दष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो यथावस्थितंचतुर्थे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चैदम्-‘सप्तचत्वारिंशद्योजनसहस्राणित्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दश एकषष्टिभागाः सर्वान्तिमे तु मण्डलेतृतीयमण्डलापेक्षया द्व्यशीत्यविकशततमे यदा षटिपथपराप्ततापरिमाणं ज्ञातुमिष्यते तदासाषटत्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानिपञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ततः षष्टिभागानयनार्थमेकषष्टया भागो ह्रियते, लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषाः पञ्चविंशतिरेकषष्टिभागाउद्धरन्ति एतत्ध्रुवराशौ प्रक्षिप्यते, ततोजातमिदं-पञ्चाशी-तिर्योजनानि एकादश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षट् एकषष्टिभागाः। इह षटत्रिंशत एवमुत्पत्ति-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यार मुहूर्तेकषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्तेकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, तत उभयमीलने षटत्रिंशद्भवति, ते चाष्टादश एकषष्टिभागाः कलया न्यूना लभ्यन्तेन परिपूर्णा, परंव्यवहारतः पूर्वंपरिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वंप्रतिमण्डलं भवत् यदा द्व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा एकषष्टिरेकषष्टिभागास्त्रुट्यन्ति, एतदमिव्यवहारत उच्यते, परमार्थतः पुनः किञ्चिदधिकमपित्रुटयदवसेयं, ततो।मी अष्टषष्टिरेकषष्टिभागाअपसार्यन्ते, तदपसाणेपञ्चाशीतिर्योजनानि नवषष्टिभागा योजनस्य एकस्य ,ष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इति जातं ततः सर्वबाह्यमण्डलानन्तराक्तिनद्वितीयमण्डलगतात्दृष्टिपथप्राप्ततापरि-माणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः । इत्येवंरूपात् शोध्यते, ततो यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव सूत्रकृद्वक्ष्यति, ततएवं पुरुषच्छायायांदृष्टिपथप्राप्ततारूपायां द्वितीयादिषुकेषुचिन्मण्डलेषु [12]5] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy