SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २०, प्राभृतप्राभृतं - ३११ सा तथाभूता तया 'संगतहसियभणियचिट्ठयसंलावविलासनिउणजुत्तोवयारकुसलाए' संगतं - मैत्रीगतं गमनं सविलासं चङ्क्रणमित्यर्थः हसितं - सप्रमोदं कपोलसूचितं हसनं भणितं - मन्मथोद्दीपिका विचित्रा भणितिश्चेष्टितं - सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानं संल्लापः- प्रियेण सह सप्रमोदं सकामं परस्परं सङ्क्त्था एतेषु विलासेन - शुभलीलया यो निपुणः- सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो - देशकालोपपन्न उपचारस्तत्कुशलया अनुरक्तया कदाचिदप्यविरक्तया मनोऽनुकूलया भार्यया सार्द्धमेकान्तेन रतिप्रसक्तो - रमण - प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन्, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुख - मनुभवति, इष्टान् शब्दस्पर्शरशरूपगन्धरूपान् पञ्चविधान् मानुषान्-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमुख्ये संवेदयमानो विहरेद्-अवतिष्ठेत् । 'ता से ण'मित्यादि, तावच्छब्दः क्रमार्थ, आस्तामन्यदग्रेतनं वक्तव्यमिदं तावत्कथ्यतां, स पुरुषः तस्मिन् 'कालसमये' कालेन तथाविधेनोपलक्षितः समयः - अवसरः कालसमयस्तस्मिन्, कीदृशं सातरूपं-आह्लादरूपं सौख्यं प्रत्यनुभवन् विहरति ?, एवमुक्ते गौतम आह- 'ओरालं समणाउसो !' हे भगवन् ! श्रमण ! आयुष्मन् ! उदारं - अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह - 'तस्स ण' मित्यादि, 'एत्तो' एतेभ्यस्तस्य पुरुषस्य सम्बन्धिभ्यः कामभोगेभ्य 'अनंतगुणविसितरा चेव' त्ति अनन्तगुणा - अनन्तगुणतया विशिष्टतरा एव व्यन्तरदेवानां कामभोगाः, व्यन्तरदेवकामभोगेभ्योऽप्यसुरेन्द्रवर्जानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा ग्रहनक्षत्रतारारूपाणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः चन्द्रसूर्याणां, एताध्शान् चन्द्रसूर्या ज्योतिषेन्द्रा ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति । सम्प्रति पूर्वमष्टाशीतिसङ्ख्याग्रहा उक्तास्तान् नामग्राहमुपदिदर्शयिषुराह मू. (१९८) तत्थ खलु इमे अट्ठासीती महग्गहा पं०, तं० - इंगालए वियालए लोहितंके सनिच्छरे आहुणिए पाहुणिए कणओ खणए कणकणए कणविताणए १० कणगसंताणे सोमे सहिते अस्सासणो कज्जोवए कव्वरए अयकरए दुदुंभए संखे संखनाभे २० संखवण्णाभे कंसे कंसनाभे कंसवण्णाभे नीले नीलोभासे रुप्पे रुप्पोभासे भासे भासरासी ३० तिले तिलपुप्फवण्णे दगे दगवण्णे काये बंधे इंदग्गी धूमकेतू हरी पिंगलए ४० । - बुधेसुक्क बहस्सती राहू अगत्थी माणवए कामफासे धुरे पमुहे वियडे ५० विसंधिकप्पेल्लए पइल्लेजडियालए अरुणे अग्गिल्लए काले महाकाले सोत्थिए सोवत्थिए वद्धमाणगे ६० पलंबे निच्चालोन निघुज्जोते सयंपभे ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए ७० विरए असोगे वीतसोगे य विमले विवत्ते विवत्थे विसाल साले सुव्वते अनियट्टी एगजडी ८० दुजडी कर करिए रायऽग्गले पुप्फकेतू भाव केतू, संगहणी वृ. 'तत्थ खलु' इत्यादि तत्र तेषु चन्द्र सूर्य नक्षत्र तारा रूपेषु मध्ये ये पूर्वमष्टाशीति सङ्ख्या ग्रहाः प्रज्ञप्ताः से इमे तद्यथा- ‘इंगालए’' इत्यादि सुगमं, एतेषामेव नाम्नां सुख प्रतिपत्यर्थं सङ्ग्रहणि गाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy