SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८ /-/ १२४ तत्र वातोद्धता - वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकाः - ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च - उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुङ्गं - उच्चमत एव । 'गगनतलमणुलिहंतसिहरे' त्ति गगनतलं - अम्बरतलमॅनुलिखत्-अभिलङ्घयत् शिखरं यस्य तत् गगनतलानुलिखतशिखरं, तथा जालानि - जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जरात् उन्मीलितमिव - बहिष्कृतमिव पञ्जरोन्मीलितं यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्मविनष्टच्छायत्वात् शोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च मित्यादिषु पुण्डाणि रत्नमयाश्चार्द्धचन्द्रा द्वारग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तर्बहिश्च श्लक्ष्णं मसृणमित्यर्थः, तथा तपनीयं - सुवर्णविशेषस्तन्मय्याः वालुकायाः-सिकतायाः प्रस्तटः - प्रतरो यत्र तत्तथा, तथा सुखस्पर्शं शुभस्पर्शं वा तथा सश्रीकाणिसशोभानि रूपाणि - नरयुग्मादीनि यत्र तत् सश्रीकरूपं तथा प्रसादीयं - मनः प्रसादहेतुः अत एव दर्शनीयं- द्रष्टुं योग्यं, तद्दर्शनेन तृप्तेरसम्भवात्, तथा प्रतिविशिष्टं - असाधारणं रूपं यस्य तत्तथा 'एवं सूरविमाणेवी 'त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सर्वेषामपि ज्योतिर्विमानानामेकरूपत्वात् तथा चोक्तं समवायाने- "केवइया णं भंते! जोइसियावासा पन्नत्ता ?, गोयमा ! इमीसे रयण्णप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाई उड्डुं उप्पइत्ता दसुत्तरजोयणसयबाहल्ले तिरियमसंखेजे जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसियविमाणावासा अब्भुग्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चैव जाव पासाईया दरिसणिज्जा अभिरुवा पडिरूवा' इति । 'ता चंदविमाणेण 'मित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननर्वचनसूत्राणि सुगमानि, नवरं सर्वत्रापि परिधिपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" इति करणवशात् स्वयमेव नेतव्यं, तथा यत्ता- राविमानस्यायामविष्कम्भपरिमाणमुक्तमर्द्धगव्यतमुच्चत्वपरिमाणं क्रोशचतुर्भागः तदुत्कृष्ट-स्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य क्रोशचतुर्भागः तदुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्मपरिमाणं पञ्चधनुः शतानि उच्चत्वपरिमाण मर्द्धतृतीयानि धनुःशतानि, तथा चोक्तं तत्वार्थभाष्ये २७८ 'अष्टाचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामर्द्धयोजनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्तारया अर्द्धक्रोशो जघन्यायाः पञ्च धनुः शतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयोऽत्र लोक' इति, 'ता चंदविमाणं कइ देवसाहस्सीओ परिवहंति' इत्यादीन्यपि वाहनविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, नवरमियमत्र भावना - इह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy