________________
प्राभृतं १२, प्राभृतप्राभृतं -
२४७
वर्त्तते तद्वत् योगोऽपि यः प्रतिभाति स युगनद्ध इत्युच्यते, घनसम्मर्द्दरूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः - उपचयं नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना सहोपचयं गतः स प्रीणित इति भावः, माण्डूकप्लुतो नाम दशमः, तत्र माण्डूकप्लुत्या यो जातो योगः स माण्डूकप्लुतः, स च ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्लुतिगमनासम्भवात्, उक्तं च
“चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि ग्रहास्त्वनियतगतय' इति, तदित्थं यथावबोधं दशानामपि योगानां स्वरूपमात्रभावना कृता यथासम्प्रदायमन्यथा वा वाच्या, तत्र युगे छत्रातिच्छत्रवर्जा शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विषयं प्रश्नसूत्रमाह
'ता एएसि ण 'मित्यादि, ता इति पूर्ववत्, छत्रातिमनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये छत्रातिच्छत्रं योगं चन्द्रः कस्मिन् देशे युनक्ति - करोति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतया अत्र चशब्दोऽनुक्तो द्रष्टव्यः यदिवा चित्रविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहर्नयमानो गामश्वं पुरुषं पशुं वैवश्वतो न तृप्यति सुराया इव दुर्मदी' इत्यत्र, चादयो हि पदान्तराभिहितमेवार्थं स्पष्टयति न पुनः स्वातन्त्रयेण कमप्यर्थमभिदधति इति निर्णीतमेत् स्वशब्दानुशासने, जीवया - प्रत्यञ्चया दवरिकया इत्यर्थः, मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा - विभज्य, इयमत्र भावना - एकया दवरिकया बुद्धया कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मंडलं समकालं विभज्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा - एको भाग उत्तरपूर्वस्यामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरोत्तरस्यामिति, तत्र दक्षिणपौरस्त्ये- दक्षिणपूर्वे चतुर्भागमण्डले - चतुर्भागमात्रे मण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशभागप्रमाणे सप्तविंशति भागानुपादाय - गृहीत्वा आक्रम्येत्यर्थः, अष्टाविंशतितमं च भागं विंशतिधा छित्वा तस्य सत्कानष्टा दश भागानुपादाय - आक्रम्य शेषैस्त्रीभिरेकत्रिंशत्सत्कैर्भागैर्द्वाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं मण्डलचतुर्भागसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्रश्छत्रातिच्छत्ररूपं योगं युनक्ति-करोति ।
एनमेव ' तद्यथे' त्यादिना भावयति, उपरि चन्द्रो मद्ये नक्षत्रमधस्ताच्चादित्य इति, इह मध्ये नक्षत्रमित्युक्तं ततो नक्षत्रविशेषप्रतिपत्यर्थं प्रश्नं करोति- 'तं समयं च ण'मित्यादि, तस्मिन् समये चन्द्रः केन नक्षत्रेण युनक्ति - योगं करोति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, तस्मिन् समये चित्रया सह योगं करोति, तदानीं च चित्रायाश्चरमसमयः ॥
प्राभृतं - १२ समाप्तम्
प्राभृतं - १३
वृ. तदेवमुक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशमारभ्यते - तस्य चायमर्थाधिकारो यथा'चन्द्रमसो वृद्धयपवृद्धी वक्तव्ये' इति ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (१०७) ता कहं ते चंदमसो वड्ढोवड्डी आहितेति वदेज्जा ?, ता अट्ठे पंचासीते मुहुत्तसते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International