SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०४ __ अनयोर्व्याख्या-आवृत्तिभिरेकोनकाभिर्गुणितं शतंत्र्यशीत्यधिकं, किमुक्तं भवति?या आवृत्तिर्विशिष्टतिथियुक्ता ज्ञातुमिथ्यते तत्सङ्ख्या एकोना क्रियते, ततस्तया त्र्यशीत्यधिकं शतं गुण्यते, गुणयित्वा च येनाङ्केन गुणितं त्र्यशीत्यधिकं शतंतदङ्कस्थानं त्रिगुणं कृत्वा रूपाधिकं सत् तत्रपूर्वराशौ प्रक्षिप्यन्ते, ततः पञ्चदशभिर्भागो ह्रियते, हतेच भागेयल्लब्धंततिषुतावत्सव्याकेषु पर्वस्वतिक्रान्तेषुसा विवक्षिता आवृत्तिर्भवति, ये त्वंशाः पश्चादुद्धरितास्ते दिवसा ज्ञातव्याः, तत्र तेषुदिवसेषुमध्ये चरमदिवसेआवृत्तिर्भवतीति भावः, इहावृत्तीनामेवं क्रमो-युगेप्रथमा आवृत्ति श्रावणे मासे द्वितीयामाघमासे ततीया भूयः श्रावणे मासे चतुर्थी माघमासे पुनरपि पञ्चमी श्रावणे षष्ठी माघमासे भूयः सप्तमी श्रावणे अष्टमी माघे नवमी श्रावणे दशमी माघमासे इति। तत्र प्रथमा किल आवृत्ति कस्यां तिथौ भवतीति यदि जिज्ञासा तदा प्रथमावृत्तिस्थाने एकको ध्रियते स रूपोनः क्रियते इति न किमपि पश्चाद्रूपंप्राप्यते, ततः पाश्चात्ययुगभाविनी या दशमीआवृत्तिस्तत्सङ्ख्या दशकरूपा ध्रियतेतया त्र्यशीत्यधिकंशतंगुण्यतेजातान्यष्टादशशतानि त्रिंशदधिकानि, दशकेन किल गुणितं त्र्यशीत्यधिकं शतमिति ते दश त्रिगुणाः क्रियन्ते जाता त्रिंशत् सा रूपाधिका विधेया जाता एकत्रिंशत् सा पूर्वराशौ प्रक्षिप्यते जातान्यष्टादश शतान्येकषष्ट्यधिकानि तेषां पञ्चदशभिर्भागो ह्रियते लब्धं चतुर्विंशत्यधिकं शतं शेषं तिष्ठति एक रूपं,आगतं चतुर्विंशत्यधिकपर्वशतात्मके पाश्चात्ये युगेऽतिक्रान्ते अभिनवेयुगे प्रवर्त्तमाने प्रथमा आवृत्ति प्रथमायां तिथौ प्रतिपदि भवतीति । तथा कस्यां तिथौ द्विताया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा ततो द्विको ध्रियते, स रूपोनः कृत इतिजात एककस्तेन त्र्यशीत्यधिकं शतं गुण्यते, एकेनच गुणितं तदेव भवतीति जातं त्र्यशीत्यधिकमेव शतं, एकेन गुणितं किल त्र्यशीत्यदिकं शतमिति एकस्त्रीगुणीक्रियते, जातस्त्रिकः स रूपाधिको विधीयते, जाताश्चत्वारः ते पूर्वराशौ प्रक्षिप्यन्तेक जातं सप्ताशीत्यधिकं शत, तस्य पञ्चदशभिर्भागो ह्रियते, लब्धा द्वादश शेषास्तिष्ठन्ति सप्त,आगतंयुगे द्वादशसुपर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां तिथौ द्वितीया माघमासभाविनीनां तुमध्ये प्रथमा आवृत्तिरिति, तथा तृतीया आवृत्ति कस्यां तिथौ भवतीति जिज्ञासायां त्रिको ध्रियते,स रूपोनः कर्तव्य इति जातो द्विकःतेन त्र्यशीत्यधिकं शतं गुण्यते, जातानित्रीणि शतानि षट्षट्यधिकानि , द्विकेन किल गुणितं त्र्यशीत्यधिकं शतं ततो द्विकस्त्रिगुणीक्रयते जाताः षट् ते रूपाधिकाः क्रियन्ते जाताः सप्त तेपूर्वराशौ प्रक्षिप्यन्ते जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि तेषां पञ्चदशभिर्भागो ह्रियते लब्धा,चतुर्विंशति शेषास्तिष्ठन्ति त्रयोदशांशाः।। आगतंयुगे तृतीयाआवृत्ति श्रावणमासभाविनीनांतु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके प्रथमे संवत्सरेऽतिक्रान्ते श्रावणमासेबहुलपक्षे त्रयोदश्यांतिथौभवतीति, एवमन्यास्वप्यावृत्तिषु करणशाद्विवक्षितास्तिथयः आनेतव्याः, ताश्चेमायुगे चतुर्था माघमासभाविनीनांतुमध्ये द्वितीया शुक्लपक्षेचतुर्थ्यापञ्चमी श्रावणमासभाविनीनांतुमध्ये तृतीया शुक्लपक्षे दशम्यां षष्ठी माघमासभाविनीनां तु मध्ये तृतीया माघमासे वहुलपक्षे प्रतिपदि सप्तमी श्रावणमासभाविनीनां तु मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यांअष्टमी माघमासभाविनीनांतुमध्ये चतुर्थीमाघमासे वहुलपक्षे त्रयोदश्यां नवमी श्रावणमासभाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनांतु मध्ये पञ्चमी माघमासे शुक्लपक्षेदशम्यां, तथा चैता एव पञ्चानां श्रावणमास Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy