________________
२१३
प्राभृतं ११, प्राभृतप्राभृतं - द्वाषष्टिभागस्य षट्षष्ट्या सप्त,,षष्टिटिभागैरश्लेषादीनि आर्द्रापर्यन्तानि शुद्धानि
___-स्थिताः पश्चान्मुहूर्ता द्वाचत्वारिंशत्, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्य-वसानसमये सूर्येण सह संयुक्तस्य पुनर्वसोझै मुहूर्तावेकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यषष्टिश्चूर्णिका भागाः सेषाः, तथा चतुर्थचान्द्रसंवत्सरपर्यवसानमेकोन-पञ्चाशत्तमपौर्णमासीपरिसमाप्तौ ततः स एव ध्रुवराशि एकोनपञ्चाशता गुण्यते, जातानि मुहूर्तानां द्वात्रिंशच्छतानिचतुस्त्रिंशदधिकानि मुहूर्तसत्कानांच द्वाषष्टिभागानां द्वे शते पञ्चचत्वारिंशदधिके एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशत् सप्तषष्टिभागाः तत एतस्मात् प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते, ततः स्थितानि सप्तशतानि सप्तसप्तत्यधिकानि मुहूर्तानां मुहूर्तसत्कानांच द्वाषष्टिभागानांसप्तत्यधिकंशतंएकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत्सप्तषष्टिभागाः ततः सप्तभि शतैः चतुःसप्तत्यधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्यषट्षष्ट्या सप्तषष्टिभागैर्भूयोऽभिजिदादीनिपूर्वाषाढापर्यन्तानिनक्षत्राणिशुद्धानि, स्थिताः पश्चात्पञ्च मुहूर्त्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत्सप्तषष्टिभागाः तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य चत्वारिंशदद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण सह युक्तस्य पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्त्ता एकविंशतिषष्टिभागा मुहूर्तस्य एकंच द्वाषष्टिभागंसप्तषष्टिधा छित्वा तस्य सत्का सप्त-चत्वारिंशचूर्णिकाभागाः शषाः, तथाहि
-स एव ध्रुवराशिरेकोनपञ्चाशतागुण्यते, गुणयित्वा च ततः प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वाशोध्यते, स्थितानि सप्त मुहूर्त्तशतानि सप्तसप्तत्यधिकानि मुहूर्त्तसत्कानां च द्वाषष्टिभागानांसप्तत्यधिकंशतमेकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत्सप्तषष्टिभागाः, तत एतेभ्य एकोनविंशत्या मुहूर्तरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यःशुद्धः,स्थितानि पश्चान्मुहूर्तानांसप्तशतानि अष्टापञ्चाशदधिकानि मुहूर्तसत्कानांच द्वाषष्टिभागानांसप्तविंशत्यधिकं शतंएकस्य च द्वाष-ष्टिभागस्य एकोनविंशति सप्तषष्टिभागा ततः सप्तभिः शतैश्चतुश्चत्वारिंशद-धिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीन्याापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् पञ्चदश मुहूर्ता एकस्य च मुहूर्तस्य चत्वारिंशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति- सप्तषष्टिभागाः तत आगतं चतुर्थ चान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः शेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितपौर्णमासीपरिसमाप्तिसमये, ततो यदेव प्राक् द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम्।
प्रामृतं-११ समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org