________________
१६८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७
मण्डले दशमस्य मण्डलस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य दशस्वेकत्रिंशद्भागेषु ।
नवमं पर्व दशमेऽयने एकादशे मण्डले एकादशस्य मण्डलस्याष्टात्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकोनविंशतावेकत्रिंशद्भागेषु, दशमं पर्व एकादशेऽयने द्वादशे मण्डले द्वादशस्य च मण्डलस्य द्वाचत्वारिंशति सप्तषष्टिभागेषु एकस्य च षष्टिभागाविंशती एकत्रिंशद्भागेषु, एकादशं पर्व द्वादशेऽयने त्रयोदशे मण्डले त्रयोदशस्य मण्डलस्य सप्तचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य षट्सु एखत्रिंशद्भागेषु, द्वादशं पर्व चतुर्द्दशेऽयने प्रथमे मण्डले प्रथमस्य मण्डलस्याष्टात्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य पञ्चदशस्वेकत्रिंशद्-भागेषु, त्रयोदशं पर्व पञ्चदशेऽयने द्वितीयं मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंशति सप्तषष्टि-भागेष्वेकस्य च सप्तषष्टिभागस्य चतुर्विंशतो एकत्रिंशद्भागेषु, चतुर्दशं पर्व षोडशेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंश- द्भागयोः, पञ्चदशं पर्व सप्तदशेऽयने चतुर्थे मण्डले चतुर्थस् मण्डलस्य एकपञ्चाशति सप्तषष्टि-भागेष्वेकस्य च सप्तषष्टिभागस्य एकादशस्वेकत्रिंशद्भागेषु, एवं शेषेष्वपि पर्वस्वयनमण्डलप्रस्तारो भावनीयो, ग्रन्थगौरवभयात्तुन लिख्यते । अथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपयातीति चिन्तायां पूर्वाचार्यै करणमुपदर्शितं, सम्प्रति तदप्युपदर्श्यते
|| 9 ||
॥२॥
॥३॥
'चउवीससयं काऊण पमाणं सत्तसट्ठिमेव फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ अट्ठारसहिं सएहिं तीसेहिं सेसगम्मि गुणियम्मि । तेरस तिउत्तरेहिं सएहिं अभिइम्मि सुद्धम्मि ।। सत्तट्ठिबिसठ्ठीणं सव्वग्गेणं तओ उ जं सेसं ।
तं रिक्खं नायव्वं जत्थ समत्तं हवइ पव्वं ॥ त्रैराशिकविधौ तुर्विंशत्यधिकं शतं प्रमाणं प्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं-फलराशि कुर्यात्, कृत्वा च ईप्सितैः पर्वभिर्गुणं गुणकारं विदध्यात्, विधाय चाद्येन राशिना चतुर्विंशत्यधिकशतेन भागे हते यल्लब्धं ते पर्याया ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैस्त्रशदधिकैः सगुण्यते, सगुणिते च तस्मिन् ततस्त्रयोदशभि शतैद्वर्युत्तरैरभिजित् शोधनीयः, अभिजितो भोग्यानामेकविंशतेः सप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावतः शोधनकस्य लभ्यमानत्वात्, ततस्तस्मिन् शोधने सप्तषष्टिसङ्ख्या या द्वाषष्ट्रयस्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति, ? - सप्तषष्ट्या द्वगुणितायां यद्भवति तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि, यत्पुनस्ततोऽपि भागहरणादपि - शेषमवतिष्ठते ताद्दश नक्षत्रं ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथाक्षरार्थ, भावना त्वियम् - यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टि पर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे अत्र चतुर्विंशत्यधिकशतरूपो राशि प्रमाणभूतः, सप्तषष्टिरूपः फलं, तत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव, तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद् द्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभि शतैस्त्रशदधिकैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org