SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - १७ १६१ भोचा कजं साधेति, रवेतीहिं जलयरमंसं भोच्चा कजं साधेति, अस्सिणीहिं तित्तिरमंसं भोचा कजं साधेति वट्टकमंसं वा, भरणीहिं तलं तंदुलकं भोचा कजं साधेति॥ वृ. 'ता कहं ते भोयणे'त्यादि, ता इति पूर्ववत्, कथं ? -केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह-'ता एएसिण'मित्यादि, ताइति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणांमध्ये कृत्तिकाभिपुमान् कार्यं साधयति, दना सम्मिश्रमोदनं मुक्त्वा, किमुक्तं भवति? -कृत्तिकासुप्रारब्धं कार्यपनि मुक्तेप्रायोनिर्विजं सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या॥ प्राभृतं-१०, प्राभृतप्राभृतं-१७ समाप्तम् प्राभृतप्राभृतं-१८:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमर्थाधिकारः-'चन्द्रादित्यचारा वक्तव्याः' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (७१)ता कहं ते चारा आहिताति वदेज्जा?, तत्थ खलु इमा दुविहा चारा पं०, तं०आदिचचारा य चन्दचारा य। ता कहं ते चंदचारा आहितेति वदेज्जा ?, ता पंचसंवच्छरिएणं जुगे, अभीइनक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएति, सवणेणं नक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयंजोएति, एवं जाव उत्तरासाढानक्खत्ते सत्तट्ठिचारे चंदेणं सद्धिं जोणं जोएति। ता कहं ते आइच्चचारा आहितेति वदेजा?, ता पंचसंवच्छरिएणं जुगे, अभीयीनक्खत्ते पंचचारे सूरेण सद्धिं जोयंजोएंति, एवंजाव उत्तरासाढानक्खत्ते पंचचारे सूरेण सद्धिं जोयंजोएति॥ वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण किंप्रमाणया सङ्ख्यया इत्यर्थः, चारा आख्याता इति वदत्, भगवानाह–'तत्थे त्यादि, तत्र-चारविचारविषये खल्विमे वक्ष्यमाणस्वरूपा द्विविधा-द्विप्रकाराश्चाराः प्रज्ञप्ताः, द्वैविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयं प्रश्नसूत्रमाह ___ 'ता कहं ते' इत्यादि, ता इति प्राग्वत, कथं? -केन प्रकारेण, कया सङ्ख्यया इत्यर्थ, त्वया भगवन् ! चन्द्रचारा आख्याता इतिवदेत, भगवानाह-'तापंचेत्यादि, ताइत पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तषष्टिं चारान्यावत्चन्द्रेण सार्द्ध योगंयुनक्ति-योगमुपपद्यते, किमुक्तं भवति? -चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्घयान्चारान्चरतीति, कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रे भावयिष्यते ततः प्रतिनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रेभावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तष,टिसङ्ख्यान् चारान् चरतीति, एवं प्रतिनक्षत्रं भावनीयं । ___ सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह-‘ता कहं ते'इत्यादि, ता इति प्राग्वत्, कथं-- |12|11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy