SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१५/६८ तत्र यावता कालेन कृष्णपक्षे षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागात्मको हानिमुपगच्छति स तावान् कालविशेषस्तिथिरित्युच्यते, तथा यावता कालेन शुक्लपक्षे षोडशभागो द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणः परिवर्द्धते तावत्प्रमाणः कालविशेषस्तिथिर्भवति, उक्तं च“सोलसभागा काऊण उडुवई हायएत्थ पन्नरस । तित्तियमित्ते भागे पुणोऽवि परिवड्ढए जोन्हे ॥ कालेण जेण हायइ सोलस भागो उ सा तिही होइ । तह चेव य वुड्डी एवं तिहिणो समुप्पत्ती ॥ 119 11 ॥२॥ अत्र 'जोन्हे' इति जोत्स्ने शुक्लपक्षे इत्यर्थः, शेषं सुगमं, अयं च पूर्वाचार्यपरम्परायात उपनिषदुपदेशः - अहोरात्रस्य द्वाषष्टिभागप्रविभक्तस्य ये एकषष्टिभागास्तावत्प्रमाणा तिथिरिति, अथाहोरात्रस्त्रिंशन्मुहूर्त्तप्रमाणः सुप्रतीतः, प्रागेव सूत्रकृता तस्य तावत्प्रमाणतयाऽभिधानात्, तिथिस्तु किंमुहूर्त्तप्रमाणेति ?, उच्यते, परिपूर्णा एकोनत्रिंशन्मुहूर्ता एकस्य च मुहूर्त्तस्य द्वात्रिंशद् द्वाषष्टिभागाः, उक्तं च- 119 11 "अउनत्तीसं पुन्ना उ मुहुत्ता सोमओ तिही होइ । भागावि य बत्तीसं बावट्टिकाएण छेएणं ॥ कथमेतदवसीयते इति चेत्, उच्यते, इह अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का ये एकषष्टिभागास्तावत्प्रमाणा तिथिरित्युच्यते, तत्रैकषष्टिस्तिरंशता गुण्यते जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वाषष्टिभागीकृतसकतिथिगतमुहूर्त्तसत्का अंशाः, ततो मुहूर्तानयनार्थं तेषां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंश्मुहूर्ता द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, एतावन्मुहूर्त्तप्रमाणा तिथि, एतावता हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानिं वोपगच्छति वर्द्धते वा, तत एतावानेव तिथेः परिमाणकालः, तदेवमहोरात्रादस्ति तिथेः प्रतिविशेष इत्युपपन्नस्तिथिविषये पृथकप्रश्नः, एवं गौतमेन प्रश्ने कृते भगवानाह - 1 'तत्थ खलु' इत्यादि, तत्र - तिथिविचारविषये खल्विमा-- वक्ष्यमाणस्वरूपा द्विविधास्तिथयः प्रज्ञप्ताः, तद्यथा - दिवसतिथयो रात्रितिथयश्च तत्र तिथेर्य पूर्वार्द्धभागः स दिवसतिथिरित्युच्यते, यस्तु पश्चार्द्धभागः स रात्रितिथिरिति, 'ता कह' मित्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण कया नाम्नां परिपाट्या इत्यर्थः, दिवसतिथय आख्याता इति वदेत्, भगवानाह - एगमेगस्स णं, ता इति पूर्ववत्, एकैकस्य णमिति वाक्यालङ्कारे पक्षस्य मध्ये पञ्चदश दिवसतिथयः प्रज्ञप्ताः, –प्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पञ्चमी पक्षस्य पूर्णा, ततः पुनरपि षष्ठी तिथिर्ननन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पक्षस्य पूर्णा, ततः पुनरग्येकादशी तिथिर्नन्दा द्वादशी भद्रा त्रयोदशी जया चतुर्द्दशी तुच्छा पक्षस्य पञ्चदशी पूर्णा, 'एव’म०, एवं-उक्तेन प्रकारेण एते इति स्त्रीत्वेऽपि प्राप्ते पुंस्त्वनिर्देशः प्राकृतत्वात्, एता अनन्तरोदितास्तिथयो नन्दाद्याः, नन्दादीन्यनन्तरोदितानि तिथिनामानीत्यर्थः, त्रिगुणाः, त्रिगुणितानीति भावः सर्वेषां पक्षान्तर्वर्त्तिनां दिवसानां सर्वासां पक्षान्तर्वर्त्तिनीनां दिवसतिथीनामित्यर्थः । 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण, कया नाम्नां परिपाट्या For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy