________________
प्राभृतं १०, प्राभृतप्राभृतं -७
१३७ पञ्चदशे चतुर्दशे नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा तस्यामक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ता भवति, मघानक्षत्रा- दारभ्य श्रविष्ठानक्षत्रस्यपञ्चदशत्वात्एतच्च श्रावणमासमधिकृत्य भावनीयं, यदातेमाघी-मघानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी- श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्वं श्रविष्ठानक्षत्रस्य पञ्चदशत्वात्, एतच्च माघमासमधिकृत्य वेदितव्यं, तथा।
'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रस्य पञ्चदशत्वात्, यत्वपान्तराले अभिजिन्नक्षत्रतत्स्तोककालत्वात्प्रायोन व्यवहारपधमवतरति, तथाच समवायाङ्गसूत्रम्-'जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारो वट्टइत्ति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभद्रपदात आरभ्य पूर्वभु तरफाल्गुनीनक्षत्रमिति, एतच्च भाद्रपदमासमधिकृत्योक्तमवसेयं । 'जया णमित्यादि, यदा च फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या प्रौष्ठपदी-उत्तरभद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तरभद्रपदा-नक्षत्रस्य चतुर्दशत्वात्, इदं च फाल्गुनमासमधिकृत्योक्तं । 'जयाण'मित्यादि, यदा च आश्वयुजी-अश्वयुग्नक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्यानन्तरामावास्या चैत्री-चित्रानक्षत्रसमन्विता वति, अश्विन्या आरभ्य पूर्वं चित्रानक्षत्रस्य पञ्चदशत्वात्, एतच्च व्यवहारनयमधिकृत्योक्तमवसेयं, निश्चयत एकस्यामप्यश्वयुग्मासभाविन्याम- मावास्यायां चित्रानक्षत्रासम्भाद्, एतच्च प्रागेव दर्शितं, यदाच चैत्री-चित्रानक्षत्रोपेता पौर्णमासी जायते तदा ततःपाश्चात्यानन्तरमावास्या आश्वयुजी-अश्वयुग्नक्षत्रोपेता भवति, एतदपि व्यवहारतो,निश्चयत एकस्यामपिचैत्रमासभाविन्याममावास्यायामश्विनीनक्षत्रस्यासम्भवात्, एतच्च सूत्रमश्वयुकचैत्रमासमधिकृत्य प्रवृत्तं वेदितव्यं । 'जयाण, यदाच कार्तिकी कृत्तिकानक्षत्रोपेता पौर्णमासी भवति तदा वैशाखी-विशाखानक्षत्रोपेता अमावास्या भवति, कृत्तिकातोऽर्वाग्विशाखायाः पञ्चदशत्वात्, यदा वैशाखी-विशाखानक्षत्रोपेतापौर्णमासी भवति तदा ततोऽनन्तरा-पाश्चात्या अमावास्या कार्तिकी कृत्तिकान- क्षत्रोपेता भवति, विशाखातः पूर्वं कृतिकायाश्चतुर्दशत्वात्, एतच्च कार्तिकवैशाखमासाव-धिकृत्योक्तं, एवमुत्तरसूत्रमपि भावनीयम्
प्राभृतं-१० प्राभृतप्राभृतं-७ समाप्तम्
प्राभृतप्राभृतं-८:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं, साम्प्रतमष्टममारभ्यते, तस्य चायमर्थाधिकारः-'नक्षत्राणां संस्थानं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (५१) ता कहं ते नक्खत्तसंठिती आहितेति वदेजा ?, ता एएसि णं अट्ठावीसाए नक्खत्ताणं अभीयी णं नक्खत्ते किसंठिते पन्नत्ते?, गो० ! गोसीसावलिसंठिते पन्नत्ते, सवणे नक्खत्ते किंसंठिते पन्नत्ते ?, काहारसंठिते पं०, धनिट्ठानक्खत्ते किंसंठिते प०?, सउणिपलीणगसंठिते पं०, सयभिसयानक्खत्ते किंसंठिते पन्नत्ते?, पुप्फोवयारसंठिते पन्नत्ते, पुव्वा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org