________________
प्राभृतं १०,प्राभृतप्राभृतं-६
१३१ द्वाषष्टिभागस्य षट्षष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धयति, स्थितानि पश्चात्रीणिशतानि नवाशीत्यधिकानिमुहूर्तानां एकस्यच मुहूर्तस्य चतुःपञ्चाशद् वाषष्टिभागाः एकस्यचद्वाषष्टिभागस्य षडविंशति सप्तषष्टिभागाः, ततो भूयस्त्रभिनवोत्तरैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पटया सप्तषष्टिभागैरभिजिदादीनि रोहिणिकापर्यन्तानि शोध्यन्ते, स्थिताः पश्चान्मुहूर्ताअशीति एकस्य च मुहूर्तस्य एकोनत्रिंशद्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, ।
ततस्त्रिंशता मुहूतैर्मृगशिरः शुद्धं, स्थिताः पश्चात्पञ्चाशन्मुहूर्ताः , ततः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः पञ्चत्रिंशत्,आगतंपुनर्वसुनक्षत्रंपञ्चविंशतिमुहूर्तेषुएकस्यचमुहूर्तस्यै-कोनविंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिभागेषुगतेषुतृतीयांश्राविष्ठीममावास्यां परिसमापयति, एवं चतुर्थी श्राविष्ठीसमावास्यामश्लेषानक्षत्रं प्रथमस्य मुहूर्तस्य सप्तसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति
पञ्चमी श्राविष्ठीममावास्यां पुष्यनक्षत्रंत्रिषुमुहूर्तेष्वेकस्यमुहूर्तस्य द्विचत्वारिंशतिद्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषुगतेषु । परिणमयति, ‘एव'मित्यादि, एवमुक्तेन प्रकारेण एतेन–अनन्तरोदितेनअभिलापेन-आलापकेन शेषमप्यमावास्याजातं नेतव्यं, विशेषमाह-'पोट्टवयं दो नक्खत्ता जोएति,' अत्र चैवं सूत्रपाठः-'ता पोट्टवइन्नं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहापुव्वफग्गुणी उत्तरफग्गुणी य' इदमपि व्यवहारत उच्यते, परमार्थतःपुनस्त्रीणि नक्षत्राणि प्रोष्ठपदीममावास्यांपरिसमापयन्ति, तद्यथा-मघा पूर्वफाल्गुनी उत्तरफाल्गुनी च, तत्रप्रथमां प्रोष्ठपदीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुर्युमुहूर्तेषु एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः अतिक्रान्तयोः, द्वितीयां प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रं सप्तसुमुहूर्तेष्वेकस्य च मुहूर्तस्य एकषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु गतेषु तृतीयां प्रोष्ठपदीममावास्यां मधानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु गतेषु , चतुर्थी प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशतिसप्तषष्टिभागेषुगतेषु पञ्चमी प्रोष्ठपदीममावास्यांमघानक्षत्रंचतुर्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेष्वतिक्रन्तेषु । परिसमापयति। ___'आसोइं दोन्नी'त्यादि, अत्राप्येवं पाठः–'ता आसोइन्नं अमावासं कइ नक्खत्ता जोएंति ता दोन्नि नक्खत्ता जोएंति, तंजहा-हत्थो चित्ता य' एतदपि व्यवहारतो, निश्चयतः पुनराश्वयुजीममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-उत्तरफाल्गुनी हस्तः चित्रा च, तत्र प्रथमामाश्वयुजीममावास्यां हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु गतेषु, द्वितीयामाश्वयुजीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्षु द्वाषष्टिभागेषुएकस्य चद्वाषष्टिभागस्य षोडशसुसप्तषष्टिभागेषु गतेषु,तृतीया-माश्वयुजीममावास्यां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org