________________
प्राभृतं १०, प्राभृतप्राभृतं -६
१२९ श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पौर्णमास्यां द्वादशसु मुहूर्तेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणेन सह सहचरत्वात्स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात्तदपितांपरिसमापयतीति विवक्षितत्वाद् युनक्तीत्युक्तं, सम्प्रतिउपसंहारमाह-'साविठ्ठिन्न'मित्यादि, यतएवं त्रिभिरपिकुलादिभिश्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वायुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात्, एवं शेषमपि सूत्रं निगमनीयं, यावत् । ____‘एवं नेयव्वाओ'इत्यादि, एवमुक्तेनप्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, नवरं पौषीं पौर्णमासी ज्येष्ठामूलीं च पौर्णमासी कुलोपकुलमपि युनक्ति, अवशेषासु च पौर्णमासीषुकुलोपकुल नास्तीति परिभाव्य वक्तव्याः, ताश्चैवम्-'ता कत्तियन्नं पुनिमासिणी किं कुलं वा जोएइ उवकुलं वाजोएइ?, ता कुलंपिजोएइ उवकुलंपि जोएइ, नोलभेइ कुलोवकुलं, कुलं जोएमाणे कत्तिआनक्खत्ते जोए, उवकुलं जोएमाणे भरणीनक्खत्ते जोएइ, ता कत्तिअन्नं पुन्निमं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कत्तियपुन्निमा जुत्तत्ति वत्तव्वं सिआ'इत्यादि, तावद्वक्तव्यं यावदाषाढीपौर्णमासीसूत्रपर्यन्तः, तथा चाह-जाव आसाढीपुन्निमा जुत्तत्तिवत्तव् सिया' । तदेवं पौर्णमासीवक्तव्यतोक्ता,
सम्प्रति अमावास्यावक्तव्यतामाह-'दवालसे'त्यादि, द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा-श्राविष्ठीप्रौष्ठपदी इत्यादि, तत्रमासपरिसमापकेन श्रविष्ठान-क्षत्रेणोपलक्षितोयः श्रावणो मासः सोऽप्युपचारात् श्राविष्ठा तत्रभवा श्राविष्ठी, किमुक्तंभवति? श्रविष्ठानक्षत्रपरिसमाप्यमानश्रावणमासभाविनीति,प्रोष्ठपदी प्रोष्ठपदानक्षत्रपरिसमाप्य-मानभाद्रपदमासभाविनी, एवं सर्वत्रापि वाक्यार्थो भावनीयः । ‘ता साविहिन्न'मित्यादि, श्राविष्ठीममावास्यां कति नक्षत्राणि युअन्ति कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्त, भगवानाहद्वेनक्षत्रे युङ्कतः, तद्यथा-अश्लेषा मधा च, इह व्यवहारनयमते यस्मिनक्षत्रे पौर्णमासी भवति तत आरभ्याक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां वोक्ता ततोऽमावास्यायामप्यस्यां श्राविष्ठयां अश्लेषा मघाश्चोक्ताः, लोके च तिथिगणितानुसारतो गतायामप्यमावास्यायां वर्तमानायामपिच प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽ-मावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽ- मावास्यायां प्राप्यत इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां श्राविष्ठीमिमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसुः पुष्योऽश्लेषा च, तथाहि-अमावास्याचन्द्रयोग- परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र तद्भावना क्रियते-कोऽपि पृच्छति
युगस्यादौ प्रथमा श्राविष्ठयमावास्या केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती समाप्तिमुपयाति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षटषष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org